पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४९४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४९ सर्गः
453
रामोऽपि रात्रिशेषेण बहुदूरं समत्ययात्

 तथैव गच्छतस्तस्य व्यपायाद्रजनी शुभा ।
 उपास्य स शिवां सन्ध्यां [१]विषयान्तं व्यगाहत ॥ २ ॥
 ग्रामान् विकृष्टसीमान्तान् पुष्पितानि वनानि च ।
 [२]पश्यन्नतिययौ शीघ्रं [३]शरैरिव हयोत्तमैः ॥ ३ ॥

 शरैरिवेति [४]शरवेगैरिवोपलक्षितैरित्यर्थः ॥ ३ ॥

 [५]शृण्वन् वाचो मनुष्याणां[६]ग्रामसंवासवासिनाम् ।
 राजानं धिक् दशरथं कामस्य वशमास्थितम् ॥ ४ ॥

 ग्रामरूपः संवासः-ग्रामसंवासः ॥ ४ ॥

 हा नृशंसाद्य कैकेयी पापा पापानुबन्धिनी ।
 तीक्ष्णा संभिन्नमर्यादा [७]तीक्ष्णकर्मणि वर्तते ॥ ५ ॥
 या पुत्रमीदृशं राज्ञः प्रवासयति धार्मिकम् ।
 [८]वनवासे महाप्राज्ञं सानुक्रोशं जितेन्द्रियम् ॥ ६ ॥

 ईदृशमिति । कल्याणगुणैकतानमित्यर्थः ॥ ६ ॥

 अहो दशरथो राजा निस्स्नेहः स्वसुतं प्रियम् ।
 प्रजानामनघं रामं परित्यक्तुमिहेच्छति ॥ ७ ॥
 एता वाचो मनुष्याणां ग्रामसंवासवासिनाम् ।
 शृण्वन्नतिययौ वीरः कोसलान् कोसलेश्वरः ॥ ८ ॥

 अतिययौ-अतिक्रम्यागच्छत् ॥ ८ ॥


  1. विषयान्तं-उत्तरकोसलस्य दक्षिणप्रदेशसीमानमित्यर्थः ।
  2. पश्यन्नपि-ङ.
  3. शनैरिव-ङ.
  4. शनैरिति पाठे शनैरिव जानन्, गमनस्यातिवेगत्वेऽपि प्रवासे आसक्त्यतिशयात् तथा जानन्निति भावः ।
  5. एतदनन्तरं 'विगर्हितां च कैकेयी क्रुरां क्रूरेण कर्मणा' इत्यधिकं-ङ.
  6. ग्रामाः महाग्रामाः, संवासाः-अल्पग्रामाः-गो.
  7. क्षुद्र-ङ.
  8. एतदनन्तरं-कथं नाम महाभागा सीता जनकनन्दिनी । सदा सुखेष्वमिरता दुःखान्यनुभविष्यति ॥ इत्यधिकम्-ङ.