पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४९३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
452
[अयोध्याकाण्डः
जानपदाक्रोशः

 विलप्य दीना रुरुदुर्विचेतसः
  [१][२]सुतैर्हि तासामधिको हि सोऽभवत् ॥ ३६ ॥

 स विलापस्तासां सुतैः-सुतवियोगहेतुकैरप्यधिकोऽभूत् ॥ ३६ ॥

 प्रशान्तगीतोत्सवनृत्तवादना
  विभ्रष्टहर्षा पिहितापणोदया ।
 [३]तदा ह्ययोध्या नगरी बभूव सा
  महार्णवः [४]संक्षपितोदको यथा ॥ ३७ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे अष्टचत्वारिंशः सर्गः


 छाग(३७) मानः सर्गः ॥ ३७ ॥

इति श्रीमद्रामायणामृतकतकटीकायामयोध्याकाण्डे अष्टचत्वारिंशः सर्गः


एकोनपश्चाशः सर्गः

[जानपदाक्रोशः]

 रामोऽपि रात्रिशेषेण तेनैव महदन्तरम् ।
 जगाम पुरुषव्याघ्रः पितुराज्ञामनुस्मरन् ॥ १ ॥

 एवं पौरव्यापारमुपवर्ण्य यथाप्राप्तरामवनप्रयाणदर्शनम् । रामोऽपीत्यादि । तेनैव रात्रिशेषेणेति । यद्रात्रिशेषे द्विजाः सुप्ताः अति-संहिताः, तद्रात्रिशेषेणैवेत्यर्थः । महत् अन्तरं- [५]अवकाशं जगाम-अतिवाहितवानिति यावत् ॥ १ ॥


  1. सुतैः-सुतेभ्यः सः-रामः अधिकः-प्रियतरः
  2. सुताद्धि-ङ.
  3. तथा-ङ.
  4. संक्षपितोदकः-संशोषि तोदकः
  5. महद्दूरमित्यर्थः ।