पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४९२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४८ सर्गः]
451
तादृशैर्नागरैः व्याप्ता साऽयोध्या न बभौ शुभां

 पूर्णचन्द्राननः श्यामः गूढजत्रुररिन्दमः ।
 आजानुबाहुः पद्माक्षः रामो लक्ष्मणपूर्वजः ॥ २९ ॥
 [१]पूर्वाभिभाषी [२]मधुरः सत्यवादी महाबलः ।
 सौम्यश्च सर्वलोकस्य चन्द्रवत् प्रियदर्शनः ॥ ३० ॥
 नूनं पुरुषशार्दूलो मत्तमातङ्गविक्रमः ।
 शोभयिष्यत्यरण्यानि विचरन् स महारथः ॥ ३१ ॥
 तास्तथा विलपन्त्यस्तु नगरे नागराः स्त्रियः ।
 चुक्रुशुः[३] दुःखसन्तप्ताः [४]मृत्योरिव [५]भयागमे ॥ ३२ ॥
 इत्येवं विलपन्तीनां स्त्रीणां वेश्मसु राघवम् ।
 जगामास्तं दिनकरः रजनी चाभ्यवर्तत ॥ ३३ ॥
 नष्टज्वलन [६]संपाता [७]शान्ताध्ययनसत्कथा ।
 तिमिरेणाभिलिप्तेव सा तदा नगरी बभौ ॥ ३४ ॥

 नष्टः ज्वलनानां संपातः-होमाय सङ्गमः यस्यां सा तथा । शान्तानि अध्ययनानि सत्कथाः-पुण्यकथाश्च यस्यां सा तथा ॥ ३४ ॥

 उपशान्तवणिक्पण्या नष्टहर्षा निराश्रया ।
 अयोध्या नगरी चासीत् नष्टतारमिवाम्बरम् ॥ ३५ ॥

 निराश्रयेति । रामाश्रयराहित्यात् निराश्रया ॥ ३५ ॥

 [८]तथा स्त्रियो रामनिमित्तमातुराः
  यथा सुते भ्रातरि वा विवासिते ।


  1. स्वसौलभ्यसौशील्याद्यतिशयात् परप्रश्नादिकं न प्रतीक्षत इत्यर्थः ।
  2. मधुरं-ङ,
  3. भृशसन्त-ङ,
  4. मृत्योः भयागम इव-मृत्युसम्बन्धिभयप्राप्ताविवेत्यर्थः ।
  5. समागमे-ड.
  6. संतापा-च.
  7. प्रशान्ताध्याय-ङ,
  8. तदा-च.