पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४९१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
450
[अयोध्याकाण्डः
पौरविलापः

 उपद्रुतमिदं सर्वं [१]अनालम्बमनायकम् ।
 कैकेय्या हि कृते सर्वं विनाशमुपयास्यति ॥ २५ ॥

 कृते-निमित्तम् ॥ २५ ॥

 न हि [२]प्रव्रजिते रामे जीविष्यति महीपतिः ।
 मृते दशरथे व्यक्तं [३]विलापस्तदनन्तरम् ॥ २६ ॥
 ते विषं पिवतालोड्य क्षीणपुण्याः सुदुर्गताः ।
 राघवं वाऽनुगच्छध्वं अश्रुतिं वापि गच्छत ॥ २७ ॥

 ते यूयं पुरुषा इत्यर्थः । [४]सस्त्रीका इति शेषः । अश्रुतिं वापि गच्छत–यस्मिन् देशे प्राप्ते युष्मद्वृत्तान्तश्रवणमपि न भवति, तादृशं दूरदेशं वा गच्छतेत्यर्थः ॥ २७ ॥

 मिथ्याप्रव्रजितो रामः [५]सभार्यः सहलक्ष्मणः ।
 भरते [६]सन्निविष्टास्मः सौनिके पशवो यथा ॥ २८ ॥

 मिथ्याप्रव्रजितः-मिथ्यावरकल्पनया प्रव्रजितोऽभूत् रामः । ततः कैकेयीवरागे भरते राजनि सति, सौनिके-सूना-पशुविशसनस्थानं, तत्र भवः सौनिकः, तत्समीपे पशवो यथा निश्चितप्राणपीडास्तिष्ठन्ति तद्वत्सन्निविष्टास्म, लुट्, अगुणश्छान्दसः ; स्म इति वा पदम् । विषपानादिव्यापारान्यतमाश्रयण इहावस्थानपरिहाराभाव इति शेषः ॥ २८ ॥


  1. अनालंभं-च. (अयज्ञं-ति).
  2. प्रव्रजिते-ङ.
  3. बिलोपः-च.
  4. भर्तृृन् वीक्ष्य विषं पिबतेत्युक्तिः सतीनामसंगतेति मत्वा इदमुक्तम् । परन्तु अश्रुति वापि गच्छतेति कथनं कथं ? अतः विषादमूर्च्छतानामयमर्थस्मरणशून्यः उपालंभ इति स्वरसम्
  5. ससीतः-ङ.
  6. सन्निविष्टाः स्म-ङ.,सन्निबद्धाः स्मः-च.