पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४९०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४८ सर्गः]
449
कैकेयीं बहुधा सर्वे ते निनिन्दुः तदाग्रहात्

 अनेन वासेन को नु संप्रीयेतेति योजना । अप्रतीतेन-असुखेन । सशोकस्मरण-उत्कण्ठा, सोत्कण्ठतया कृतः सोत्कण्ठितः, तादृशः जनः यस्मिन्नयोध्यावासे स तथा । हृतचेतसा-चित्तनाशकेन ॥ २० ॥

 कैकेय्या यदि चेत् राज्यं स्यादधर्म्यमनाथवत् ।
 न हि नो जीवितेनार्थः कुतः पुत्रैः कुतो धनैः ॥ २१ ॥

 अधर्म्यं-धर्मापेतम् ॥ २१ ॥

 यया पुत्रश्च भर्ता च त्यक्तावैश्वर्यकारणात् ।
 कं सा [१]परिहरेदन्यं कैकेयी कुलपांसनी ॥ २२ ॥

 पुत्रश्चेति । राम इत्यर्थः । परिहरेत्-रक्षेत् ॥ २२ ॥

 कैकेय्या न वयं राज्ये [२]भृतका निवसेमहि ।
 [३]जीवन्त्या जातु जीवन्त्यः पुत्रैरपि शपामहे ॥ २३ ॥

 जीवन्त्याः कैकेय्या राज्ये तस्या भृतकाः-भृत्यभूताः जीवन्त्यस्सत्यः न निवसेमहि, न वसेमेति यावत् । इममर्थं प्रति पुत्रैरपि शपामहे, शप उपालंभे ॥ २३ ॥

 या पुत्रं पार्थिवेन्द्रस्य प्रवासयति निर्घृणा ।
 कस्तां प्राप्य सुखं जीवेत् अधर्म्यां दुष्टचारिणीम् ॥ २४ ॥

 तां आधर्म्यां-धर्मापेताम् ॥ २४ ॥


  1. परिहरेत् परित्यजेत्, स्वक्रूरचिन्तात इति शेषः
  2. भृतकामा-ङ.
  3. अस्मिनगरे कैकेय्यावयोर्मध्ये अन्यतरजीवनमेव भवति इति भावः ।