पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४८९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
448
[अयोध्याकाण्डः
पौरविलापः

 स हि शूरो महाबाहुः पुत्रो दशरथस्य च ।
 [१]पुरा भवति [२]नोऽदूरात् अनुगच्छाम राघवम् ॥ १६ ॥

 राघवः नः-अस्माकं अदूराद्भवति पुरा; 'यावत्पुरा-' इति लट्; आसन्नो भविष्यति किम् ? आसन्नं यं राममनुगच्छाम, प्रार्थने लोट् ॥ १६ ॥

 पादच्छाया [३]सुखा भर्तुः तादृशस्य महात्मनः ।
 स हि नाथो जनस्यास्य [४]स गतिस्स परायणम् ॥ १७ ॥

 महात्मनस्तस्य पादच्छाया-छायेति अनुग्रहहेतुभूता सेवा लक्ष्यते, श्रीरामचन्द्रपादमेवैव नस्सुखा-परमसुखसाधनभूता गतिः-शरणम् । परायणं-शाश्वतप्रतिष्ठा ॥ १७ ॥

 वयं परिचरिष्यामः सीतां, यूयं तु राघवम् ।
 इति पौरस्त्रियो भर्तॄन् दुःखार्ता[५]स्तत्तदब्रुवन् ॥ १८ ॥

 वयमिति । स्त्रिय इत्यर्थः । यूयं पुरुषाः ॥ १८ ॥

 युष्माकं राघवोऽरण्ये योगक्षेमं विधास्यति ।
 सीता नारीजनस्यास्य योगक्षेमं करिष्यति ॥ १९ ॥
 [६]को न्वनेनाप्रतीतेन सोत्कण्ठितजनेन च ।
 संप्रीयेतामनोज्ञेन वासेन हृतचेतसा ॥ २० ॥


  1. दूरात् पुरा भवति-भविष्यति, ताः पूर्वमेवानुगच्छाम इत्यर्थः-गो. अदूरात् पुरा भवति आसन्नो भविष्यति, अतो राघवमनुगच्छाम-ति., ती.
  2. नो दूरात्-ङ.
  3. सुखोदर्का-ङ.
  4. गतिः-शरणं, परायणं-परमप्राप्यं 'पराभीष्टे परायणपदं विदुः' इति शाश्वतः। तथा च, उपायः उपेयश्चेति द्वयमपि राम एवेत्यर्थः ।
  5. स्तास्तदाब्रुवन्-ङ.
  6. अप्रतीतेन अप्रशस्तेन-हर्षशून्येन वा–'ख्याते हृष्टे प्रतीतः' इत्यमरः ।