अटव्य इति । वनप्रदेशा इत्यर्थः । अनूपः-कच्छः ॥ १० ॥
काननं वाऽपि शैलं वा यं रामोऽभिगमिष्यति ।
प्रियातिथिमिव प्राप्तं नैनं शक्ष्यन्त्यनर्चितुम् ॥ ११ ॥
अनर्चितुं न शक्ष्यन्ति-अर्चितुं शक्ष्यन्त्येवेत्यर्थः ॥ ११ ॥
विचित्रकुसुमापीडा बहुमञ्जरिधारिणः ।
[१]राघवं दर्शयिष्यन्ति नगा भ्रमरशालिनः ॥ १२ ॥
तदेव प्रदर्श्यते-विचित्रेत्यादि । विचित्रैः कुसुमैः-विकसितपुष्पैः आपीडाः-शेखरा येषां ते तथा । बह्वीः मञ्जरीः-मुकुलितपुष्पस्तबकान् धर्तुं शीलमस्त्येषामिति, छान्दसो ह्रस्वः । नगाः-वृक्षाः । राघवं दर्शयिष्यन्तीति । तथा च पुष्पाञ्जलिरूपमर्चनं कर्तुं शक्नुवन्त्ये-वेत्युक्तं भवति ॥ १२ ॥
अकाले चापि मुख्यानि पुष्पाणि च फलानि च ।
दर्शयिष्यन्त्यनुक्रोशात् गिरयो राममागतम् ॥ १३ ॥
पूजान्तरेऽपि सामर्थ्यं प्रदर्श्यते-अकाले चापीत्यादि । गिरयो दर्शयिष्यन्तीति । स्वकवृक्षद्वारेणेति शेषः ॥ १३ ॥
प्रस्त्रविष्यन्ति तोयानि विमलानि महीधराः ।
विदर्शयन्तो विविधान् भूयश्चित्रांश्च निर्झरान् ॥ १४ ॥
पादपाः पर्वताग्रेषु रमयिष्यन्ति राघवम् ।
यत्र रामो भयं नात्र नास्ति तत्र पराभवः ॥ १५ ॥
यत्र राम इति । वसतीति शेषः ॥ १५ ॥
- ↑ नगाः रामं परमात्मानं मत्वा स्वनिष्ठभ्रमरझंकार रूपमन्त्रोच्चारणपूर्वकं स्वशाखा-करोद्धृतमञ्जरीरूपपुष्पाञ्जलिभिः राघवमर्चयिष्यन्ति-ती.