पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४८७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
446
[अयोध्याकाण्डः
पौरविलापः

 गृहे गृहे रुदन्त्यश्च भर्तारं गृहमागतम् ।
 व्यगर्हयन्त दुःखार्ता वाग्भिः तोत्रैरिव द्विपान् ॥ ६ ॥

 व्यगर्हयन्तेति । राममप्रतिनिवर्त्य किमर्थमागता यूयमित्येवमात्मना । तोत्रैरिति पदम् ॥ ६ ॥

 [१]किन्नु तेषां [२]गृहे कार्यं किं दारैः किं धनेन वा ।
 पुत्रैर्वा किं सुखैर्वापि ये न पश्यन्ति राघवम् ॥ ७ ॥

 रामं विसृज्य आगतानां तेषां युष्माकं गृहे किं नु कार्यम् ? व्यर्थमेवागतमित्यर्थः । ये न पश्यन्तीति । ये भवन्तो न पश्यन्तीत्यर्थः । एवमन्तं स्त्रीणां गर्हावचनं, विसृज्य राममागता इति कोपजम् ॥ ७ ॥

 एकः सत्पुरुषो लोके लक्ष्मणः [३]सह सीतया ।
 योऽनुगच्छति काकुत्स्थं रामं परिचरन् वने ॥ ८ ॥

 अतः परं सामान्यतः शोकः-एक इत्यादि ॥ ८ ॥

 आपगाः कृतपुण्यास्तः पद्मिन्यश्च सरांसि च ।
 [४]येषु [५]स्नास्यति काकुत्स्थः विगाह्य सलिलं शुचि ॥ ९ ॥
 [६]शोभयिष्यन्ति काकुत्स्थं अटव्यो रम्यकाननाः ।
 आपगाश्च महानूपाः सानुमन्तश्च पर्वताः ॥ १० ॥


  1. भर्तृृन् सम्बोध्य वक्तुमनिच्छन्तः सामान्यतो तेषामिति निर्दिश्य व्यगर्हयन्त ।
  2. गृहैः-ङ, च.
  3. सीतया सह रामं-सीतया सहितं राममित्यर्थः ।
  4. येषु सरस्सु शुचि सलिलं विगाह्य-सलिलान्तर्निमज्य स्नास्यति । स्नानं खलु– केवलशौचानुकूलव्यापारः-ष्णा शौचे इति धातोः । तच्च स्नानं उद्धृतजलेनापि भवितुमर्हति । तद्व्यावृत्यर्थं विगाह्यत्युक्तम् । यद्वा स्नानं-अन्तश्शौचानुकूलव्यापारः-मन्त्रस्नानमित्यादिप्रयोगात् । अवगाहनं-बाह्यशौचानुकूलव्यापारः । यास्यतीति पाठे विगाह्म यास्यतीत्यन्वयः ॥
  5. येषु यास्यति-च.
  6. लोभयिष्यन्ति-ङ.=रामं आकर्षयिष्यन्तीति भावः ।