पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४८६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४८ सर्गः ]
445
पुरीं प्राप्य भृशार्तास्ते विलेपुर्बहुधा जनाः

अष्टचत्वारिंशस्सर्गः

[पौरविलापः]

 [१]तेषामेवं विषण्णानां पीडितानामतीव च ।
 बाष्पविप्लुतनेत्राणां सशोकानां मुमूर्षया ॥ १ ॥

 अथ प्रतिनिवृत्तपौरजनस्य पुरे स्थित्वा शोचनम्-तेषामित्यादि । मुमूर्षया-मर्तुमिच्छयोपलक्षितानाम् ॥ १ ॥

 अनुगम्य निवृत्तानां रामं नगरवासिनाम् ।
 उद्गतानीव सत्त्वानि बभूवु[२]रमनस्विनाम् ॥ २ ॥

 सत्त्वानि-अन्तःकरणानि । उद्गतानि-उत्क्रान्तानीव बभूवुः, मृततुल्यतयाऽवस्थिता इत्यर्थः । अमनस्विनां-दुर्मनस्कानां-खिन्नानामिति यावत् ॥ २ ॥

 स्वं स्वं निलयमागम्य पुत्रदारैस्समावृताः ।
 अश्रूणि मुमुचुस्सर्वे बाप्पेण पिहिताननाः ॥ ३ ॥
 न चाहृष्यन् न चामोदन् वणिजो न प्रसारयन् ।
 न चाशोभन्त [३]पण्यानि नापचन् गृहमेधिनः ॥ ४ ॥

 न चामोदन्निति । नामोदन्तेति यावत् । न प्रसारयन्-न प्रासारयन् इति यावत् । अत एव पण्यानि नाशोभन्त-न दृष्टानीत्यर्थः ॥ ४ ॥

 [४]नष्टं दृष्ट्वा नाभ्यनन्दन् विपुलं वा धनागमम् ।
 पुत्रं प्रथमजं लब्ध्वा जननी नाभ्यनन्दत ॥ ५ ॥


  1. तेषामित्यादिश्लोकद्वयमेकं वाक्यम् ।
  2. अमनस्विनां धैर्यहीनानाम्-गो.
  3. पुण्यानि-ङ.
  4. पूर्वे नष्टं तदा दृष्ट्वापीत्यर्थः ।