पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४८५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
444
[अयोध्याकाण्डः
पौरनिवृत्तिः

 ततो यथागतेनैव मार्गेण क्लान्तचेतसः ।
 अयोध्यामगमन् सर्वे पुरीं व्यथितसज्जनाम् ॥ १५ ॥

 व्यथिताः सज्जनाः यस्यां सा तथा । सत्पदविशेषणेन कैकेयी-पार्श्वासज्जनव्यावृत्तिः ॥ १५ ॥

 आलोक्य नगरीं तां च [१]क्षयव्याकुलमानसाः ।
 [२]अवर्तयन्त तेऽश्रूणि नयनैश्शोकपीडितैः ॥ १६ ॥

 क्षयः-हर्षक्षयः ॥ १६ ॥

 एषा रामेण नगरी रहिता नातिशोभते ।
 आपगा गरुडेनेव ह्नदादुद्धृतपन्नगा ॥ १७ ॥

 आपगेत्यादि गतम्[३] ॥ १७ ॥

 चन्द्रहीनमिवाकाशं तोयहीनमिवार्णवम् ।
 अपश्यन्निहतानन्दं नगरं ते विचेतसः ॥ १८ ॥

 ते तानि वेश्मानि महाधनानि
  दुःखेन दुःखोपहता विशन्तः ।
 नैव प्रजज्ञुः स्वजनं जनं वा
  निरीक्षमाणाः प्रविनष्टहर्षाः ॥ १९ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे सप्तचत्वारिंशस्सर्गः ।


 स्वजनं जनं वेति। अन्यजनं वेत्यर्थः । धैर्य (१९) मानः सर्गः ॥ १९ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे सप्तचत्वारिंशस्सर्गः



  1. क्षयं गृहं प्रति व्याकुलं-गन्तव्यं न वेत्येवंरूपं मानसं येषां-ति.
  2. भवर्तयन्त-व्यमुञ्चन् ।
  3. ४२- २५ श्लोकव्याख्यायामिति शेषः ।