पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
14
[अयोध्याकाण्डः
परिषदनुमोदनम्

 स लब्धमानैर्विनयान्वितैर्नृपैः
  पुरालयैर्जानपदैश्च मानवैः ।
 उपोपविष्टैर्नृपतिर्वृतो बभौ
  सहस्रचक्षुर्भगवानिवामरैः ॥ ५० ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे प्रथमः सर्गः


 उपोपविष्ठटैः–सभायां स्वसमीपोपविष्टैरित्यर्थः । सहस्रचक्षुः-इन्द्रः । नाम (५०) मानः सर्गः ॥ ५० ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे प्रथमः सर्गः


द्वितीयः सर्गः
[परिषदनुमोदनम्]

 ततः परिषदं सर्वामामन्त्र्य वसुधाधिपः ।
 हितमुद्धर्षणं चैवमुवाच [१]प्रथितं वचः॥ १ ॥

 अथ राज्याभिषेकस्य सकलसामन्तोपेतसर्वप्रजार्थत्वात् सर्वानुमतिं संपादयति दशरथः-तत इत्यादि । आमन्त्र्य-अभिमुखीकृत्य । हितं अत एव उद्धर्षणं उत्कटहर्षजनकम् ॥ १ ॥

 दुन्दुभिस्वनकल्पेन गंभीरेणानुनादिना ।
 स्वरेण महता राजा जीमूत इव नादयन् ॥ २ ॥


  1. प्रश्रितं-ङ.