पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/५२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१ सर्गः]
13
समागतांस्तु तान् दृष्ट्वा राजा दशरथोऽब्रवीत्

रामस्य संप्रियत्वं-समेताभिषेकप्रीतिकत्वं कर्तव्यामिति । आत्मनः श्रेयसे प्रजानां श्रेयसे च प्रियेण प्राप्तकालेन स्वीयेन च बुबुधे-गुरुर्व्यत्ययात् ; चिन्तयामि । एवमुक्त्वा धर्मात्मा नृपो भक्त्या-रामगतस्नेहेन मन्त्रिणः त्वरितवान् ॥ ४२-४४ ॥

 नानानगरवास्तव्यान् पृथग्जानपदानपि ।
 समानिनाय [१]मेदिन्याः प्रधानान् पृथिवीपतीन् ॥ ४५ ॥

 त्वरयित्वा च आसन्नान् नानानगरवास्तव्यादीन् समानिनाय-आनाययामास ॥ ४५ ॥

 [२]तान् वेश्मनानाभरणैर्यथाहं प्रतिपूजितान् ।
 ददर्शालंकृतो राजा प्रजापतिरिव प्रजाः ॥ ४६ ॥
 न तु केकयराजानं जनकं वा नराधिपः ।
 त्वरया चानयामास पश्चात्तौ श्रोष्यतः प्रियम् ॥ ४७ ॥

 वेश्मनानाभरणैरिति । तद्दानैः इत्यर्थः । केकयादेरानयनाभावहेतुः -त्वरयेति ॥ ४६-४७ ॥

 अथोपविष्टे नृपतौ तस्मिन् परबलार्दने ।
 ततः प्रविविशुः शेषा राजानो लोकसंमताः ॥ ४८ ॥

 शेषा इति । केकयजनकव्यतिरिक्ता आसन्ना इत्यर्थः ॥ ४८ ॥

 अथ राजवितीर्णेषु विविधेष्वासनेषु च ।
 राजानमेवाभिमुखा निषेदुर्नियता नृपाः ॥ ४९ ॥

 [३]नियताः-नियतदेशाधिपत्याः ॥ ४९ ॥


  1. मेदिन्यां-ङ.
  2. ४६,४७ श्लोकयोः क्रमो व्यत्यस्तः-ङ ।
  3. नियमविशिष्टा इति वा ।