पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/५१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
12
[अयोध्याकाण्डः
रमाभिषेकचिन्तनम्

 दिव्यन्तरिक्षे भूमौ च घोरमुत्पातजं भयम् ।
 [१]संचचक्षे च मेधावी शरीरे चात्मनो जराम् ॥ ४२ ॥
 [२]पूर्णचन्द्राननस्याथ शोकापनुदमात्मनः ।
 लोके रामस्य बुबुधे संप्रियत्वं महात्मनः ॥ ४३ ॥
 [३]आत्मनश्च प्रजानां च [४]श्रेयसे च प्रियेण च ।
 [५]प्राप्तकालेन धर्मात्मा भक्त्या त्वरितवान्नृपः ॥ ४४ ॥

 अथ भरतशत्रुघ्नौ जनकादयश्चानेतव्या इति कालविळम्बकरान् मन्त्रिणस्त्वरितवान्; अथ त्वराहेतुं च तेभ्यः संचचक्षे-उक्तवानित्युच्यते-दिवीत्यादि । दिव्युत्पातः- उल्कापातादिः । अन्तरिक्षे उत्पाता–महावातदिग्दाहादयः । भूमौ भूकम्पनपर्वतशिरस्फोटादिः,पक्षिमृगशब्दगतिविशेषश्च । एवं उत्पातजं उत्पातसूचकं घोरं रामाभिषेकविघ्नशंकाजनितं [६]भयं संचचक्षे-आख्यातवान् । नन्विदानीं विघ्ने, कालान्तरे भविष्यतीत्यत्रोच्यते-आत्मन इत्यादि । अहं षष्टिवर्षसहस्रं जीवनादतिजीर्णदेहः, अतः कालान्तरे मज्जीवनं सन्दिग्धम् । घोरोत्पाताः अभिषेकविघ्नसूचका दृश्यन्ते । यदेवमतः-पूर्णेत्यादि । शोकापनुदं । 'तुन्दशोकयोः' इत्यादिना कः, शोकापनुदं


  1. संचचक्षे–दृष्टवान्-गो.
  2. अथ-उत्पातदर्शनानन्तरं पूर्णचन्द्राननस्य-महात्मनः-रामस्य लोके-विषये संप्रियत्वं, कीद्दशम् ? आत्मनः शोकापनुदं-उत्पातादि-भयनिवर्तकं सम्यक्प्रियत्वं बुबुधे-अनुसन्दधौ-गो.
  3. प्रियेण-चतुर्थ्यर्थे तृतीया । प्राप्तकालेनोपलक्षितस्सन्-गो.
  4. श्रेयसा-ङ.
  5. प्राप्तकाले स धर्मात्मा-ङ.
  6. स्वतुतस्त्वत्र भयं स्वमरणस्मरणजन्यमेव युक्तम् । उत्पातदर्शनमात्रेण दृढकायस्य तव कथं मरणं संभाव्यत इति शङ्कायां-शरीरे चात्मनो जरामिति ।