पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/५०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१ सर्गः]
11
इति संचिन्त्य राजाऽसावानयामास पार्थिवान्

 उक्तचिंताया अनुवादपूर्वं तदौत्कट्यं प्रतिपाद्यते-एषेत्यादि । एतच्छब्दार्थः-कदा नामेत्यादि । कदा द्रक्ष्यामीत्येषा प्रीतिः- प्रीतिसंपत्तिविषयिणी चिन्ता परा-उत्कटा परिवर्तते स्मेति योजना ॥३६॥

 वृद्धिकामो हि लोकस्य सर्वभूतानुकम्पनः ।
 मत्तः प्रियतरो लोके पर्जन्य इव वृष्टिमान् ॥ ३७ ॥

 लोके-लोकविषये ॥ ३७ ॥

 यमशक्रसमो वीर्ये बृहस्पतिसमो मतौ ।
 महीधरसमो धृत्यां मत्तश्च गुणवत्तरः ॥ ३८ ॥
 महीमहमिमां कृत्स्नामधितिष्ठन्तमात्मजम् ।
 अनेन वयसा दृष्ट्वा यथास्वर्गमवाप्नुयाम् ॥ ३९ ॥

 अनेन वयसेति । वृद्धशरीरेणेति यावत् । यथा-यथावत् अधितिष्ठन्तमित्यन्वयः। यथास्वर्ग-यथाकालप्राप्तं स्वर्गं अथावाप्नुयामिति चिन्ता बभूवेत्यनुकर्षः ॥ ३९ ॥

 इत्येतैर्विविधैस्तैस्तैरन्यपार्थिवदुर्लभैः ।
 शिष्टैरपरिमेयैश्च लोके लोकोत्तरैर्गुणैः ॥ ४० ॥
 तं तु वीक्ष्य महाराजो युक्तं समुदितैः शुभैः ।
 निश्चित्य सचिवैः सार्धं यौवराज्यममन्यत ॥ ४१ ॥

 एवं चिन्तानन्तरं कर्तव्यनिश्चयो राज्ञः–एतैरित्यादि । प्रागुक्तैरित्यर्थः । शिष्टैः-विशिष्टैः लोके अन्यपार्थिवदुर्लभैः इत्यन्वयः । लोकोत्तरैर्गुणैर्युक्तं वीक्ष्य उक्तगुणानुवादपूर्वं कर्तव्यनिश्चयः-समुदितैरित्यादि । एवं समुदितैः–समस्तैः गुणैर्युक्तं निश्चित्य सचिवैः सार्धं यौवराज्यं दातुं-अभिषेकं कर्तुं अमन्यत-विचारितवानित्यर्थः ॥