पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
10
[अयोध्याकाण्डः
रामाभिषेकचिन्तनम्

तृतीयार्थपञ्चम्याश्रये पाङ्कोऽर्थः । युज्यते च स एव वक्ष्यमाणरीत्यनु रोधात् । कान्ताः-इष्टाः अत एव प्रीतिसञ्जननाश्च पितुः गुणाः तैरुपलक्षित इति शेषः ॥ ३१-३२ ॥

 [१]तमेवं [२]वृत्तसंपन्नं अप्रधृष्यपराक्रमम् ।
 लोक[३]पालोपमं नाथमकामयत मेदिनी ॥ ३३ ॥

 एवमभिषेकप्रयोजकं श्रेष्ठगुणवत्त्वमुपवर्ण्याभिषेकेच्छाप्रयत्नप्रतिपादनम्-तमेवमित्यादि । मेदिनी-भूदेवता, तद्वर्तिप्रजाजातं चेत्यर्थः ॥

 एतैस्तु बहुभिर्युक्तं गुणैरनुपमैस्सुतम् ।
 दृष्ट्वा दशरथो राजा चक्रे चिन्तां परन्तपः ॥ ३४ ॥
 अथ राज्ञो बभूवैवं वृद्धस्य चिरजीविनः ।
 प्रीतिरेषा [४]कथं रामो राजा स्यान्मयि जीवति ॥ ३५ ॥

 चिन्तां चक्र इत्यस्यैव प्रपञ्चनं-अथेत्यादि । कथं रामो राजा स्यात् ? तादृशस्य तस्य दर्शनजा एषा प्रीतिः अपि मे कथं स्यादित्येवं चिन्ता बभूवेत्यर्थः ॥ ३५ ॥

 एषा ह्यस्य परा प्रीतिर्हृदि [५]संपरिवर्तते ।
 कदा नाम सुतं द्रक्ष्याम्यभिषिक्तमहं प्रियम् ॥ ३६ ॥


  1. वृत्तं शीलं, तदपि सद्गुणमूलकत्वात् गुण एव विश्राम्यति । ‘तमेवं गुणसंपन्नं’ (बाल-1-9) इत्यनेनैककण्ठ्यात् । एवं-गुणसंपन्नत्ववत, आश्रितसंरक्षणरूपव्रत-संपन्नम्-गो.
  2. व्रत-ङ.
  3. नाथो-ङ. च.
  4. अत्र कैकेयीवरदानकृतविघ्नशङ्काप्रतिसन्धानेन कथमित्युक्तिः- गो.परन्त्वत्र 'मयि जीवति' इति दर्शनान्नैतत्स्वरसम् । किन्तु 'वृद्धस्य' इति विशेषणात्,लोके वृद्धानां पितॄणां स्वजीवनकाले एव पुत्रविवाहदिवृक्षावत् दशरथस्यापि चिन्ता समजनि । पितरि जीवति च रामो राजत्वं न स्वीकुर्यात् इत्येवात्र चिन्ता युक्ता । ४२ श्लोकव्याख्या द्रष्टव्या ।
  5. संप्रति-ङ.