पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१ सर्गः]
9
शक्तः खलु स वै नाथः त्रैलोक्यमपि रक्षितुम्

 धनुर्वेदविदां श्रेष्ठो लोकेऽतिरथ[१]संमतः ।
 अभियाता प्रहर्ता च सेनानयविशारदः ।
 अप्रधृष्यश्च संग्रामे क्रुद्धैरपि सुरासुरैः ॥ २९ ॥

 अभियाता । परसेनाया इति शेषः । तस्याः प्रहर्ता च । सेनानयः-स्वसेनाव्यूहनादिः ॥ २९ ॥

 [२]अनसूयो जितक्रोधो न तो न च मत्सरी ।
 [३]न चावमन्ता [४]सिद्धानां [५]न च कालवशानुगः ॥ ३० ॥

 सिद्धाः-देवभेदाः । न कालवशानुग इति । कालनियन्तुः श्रीमदादिगुवंशत्वेन प्राकृतवत्कालपरतन्त्रस्वदेहजरामृतिदुःखादिधर्म- रहितः–स्वायत्तस्वपरिकरसर्वयात्रः, भगवानिवेत्यर्थः ॥ ३० ॥

 एवं श्रेष्ठगुणैर्युक्तः [६]प्रजानां पार्थिवात्मजः ।
 संमतस्त्रिषु लोकेषु वसुधायाः क्षमागुणैः ।
 बुद्धया बृहस्पतेस्तुल्यो वीर्येणापि शचीपतेः ॥ ३१ ॥
 तथा सर्वप्रजाकान्तैः प्रीतिसंजननैः पितुः ।
 गुणैर्विरुरुचे रामो[७] दीप्तः सूर्य इवांशुभिः ॥ ३२ ॥

 अथ तृतीयपर्यायः-सम्मत इत्यादि । वसुधायाः क्षमादि-गुणैः हेतुभिः तुल्य इति । त्रिषु लोकेषु सम्मत इति योजना ।


  1. सत्तमः-ङ
  2. एवं कल्याणपूर्णत्वमुक्तम् । अथ हेयप्रत्यनीकत्वमुच्यते-अनसूय इति-गो.
  3. नावज्ञेयश्च-ङ.
  4. भूतानां-ङ.च.
  5. न च कालवशानुगः-सत्वरजस्तमः प्रधानकालानुगुणसत्त्वरजस्तमोगुणो न भवति,
    केवलसत्वमूर्तिरित्यर्थः-गो. अथापि लोकसंग्रहाय सिद्धानां नावमन्ता ।
  6. प्रजानां मध्ये श्रेष्ठैर्गुणैर्युक्तः त्रिषु लोकेषु सम्मतः-पूजितः-गो.
  7. दीप्तैः-ङ.