पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
8
[अयोध्याकाण्डः
रामाभिषेकचिन्तनम्

 पुरुषाणामन्तरे-तारतम्यं तद्विवेके कोविदः । यथान्यायं यथोचितं कर्तुं विचक्षणः स तथा ॥ २५ ॥

 [१]सत्संग्र[२]हप्रग्रहणे स्थानविन्निग्रहस्य च ।
 आयकर्मण्युपायज्ञः [३][४]संदृष्टव्ययकर्मवित् ॥ २६ ॥

 उक्तार्थस्यैव विवरणम्-सदित्यादि । सतां संग्रहपूर्वं संगमन-पूर्वं प्रकर्षेण दृढतया परिग्रहणं तत्कुटुम्बयात्रानिर्वाहादिना रक्षणं, तथा निग्रहस्य च करणे विचक्षण इत्यनुकर्षः । आयकर्मणि-करग्रहणकर्मणि । सन्दृष्टधनानुरोधेन व्ययकर्मकृत्-'यदायान्नाधिको व्ययः' इति धर्मः ॥ २६ ॥

 श्रैष्ठ्यं शास्त्रसमूहेषु प्राप्तो व्यामिश्रकेषु च ।
 अर्थधर्मौ च संगृह्य सुखतन्त्रो न चालसः ॥ २७ ॥

 व्यामिश्रकेषु–प्राकृतसंस्कृतमिश्रितनाटकादिषु । अर्थधर्मो च संगृह्य तदविरोधेनैव सुखतन्त्रः; 'तन्त्रं प्रधाने सिद्धान्ते' ॥

 वैहारिकाणां शिल्पानां [५]विज्ञाताऽर्थविभागवित् ।
 आरोहे विनये चैव युक्तो वारणवाजिनाम् ॥ २८ ॥

 वैहारिकाणां-क्रीडाप्रयोजनानाम्, 'तदस्य प्रयोजनम्' इति ठक् । शिल्पानि-गीतवादित्रादीनि । भरतशास्त्रप्रसिद्धस्यार्थस्य पदार्थतत्त्वस्य विभागवित्तया भरतशास्त्रचतुर इति यावत् । इदं प्रागुक्त-सुखतन्त्रत्वोपयुक्तविशेषणम् । विनयः-[६]शिक्षा ॥ २८ ॥


  1. सतां संग्रहे-स्वीकारे प्रग्रहणे-परिपालने च, विचक्षण इति शेषः । निग्रहस्य–असन्निग्रहस्य च स्थानवित्-अवकाशवित् ।
  2. हानुग्रहणे-ङ.
  3. सदृष्ट-ङ.
  4. संदृष्टव्ययकर्मवित्-'कश्चिदायस्य चार्धेन' इत्यादिशास्त्रावगतव्ययकर्मज्ञः-गो.
  5. विज्ञाताक्ष-ङ.
  6. शिक्षणं-ग.