पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१ सर्गः]
7
कदा नाम सुतं द्रक्ष्याम्यभिषिक्तमहं प्रियम्

 धर्मकामार्थतत्वज्ञः स्मृतिमान् प्रतिभानवान् ।
 [१]लौकिके समयाचारे कृतकल्पो विशारदः ॥ २२ ॥

 स्मृतिप्रतिभानाद्याः संक्षेपेण व्याकृतचराः । लौकिके कृतकल्पः-सम्पादितसामर्थ्यः । समयाचारः-धर्मः तत्र विशारदः ॥

 निभृतः संवृताकारो [२][३]गुप्तमित्रैः सहायवान् ।
 अमोघक्रोधहर्षश्च त्यागसंयमकालवित् ॥ २३ ॥

 निभृतः-विनीतः, 'वश्यः प्रणेयो निभृतविनीतप्रश्रितास्समाः । संवृताकारः—संवृतेङ्गितः। गुप्तैः-आपद्दशारक्षितैः मित्रैः सम्पन्नः-सहायवान् । त्यागसंयमकालविदिति । वित्तादेरिति शेषः ॥ २३ ॥

 दृढभक्तिः स्थिरप्रज्ञो नासद्ग्राही न दुर्वचाः ।
 निस्तन्द्रिरप्रमत्तश्च स्वदोषपरदोषवित् ॥ २४ ॥

 दृढं यथातथा भक्तिः-भजनं गुर्वादेर्यस्य स तथा । दृढशब्दस्य [४]प्रियादित्वात् स्त्रीलिङ्गविवक्षायां पुंवद्भावाभावात् रूपं न सिध्यति । निस्तन्द्रिरिति । औणादिकेकारान्ततो स्त्रीप्रत्ययान्तत्वात् ह्रस्वः । सुश्रीसुधीशब्दादिवत् । [५]स्वीयानां दोषः स्वदोषः ॥ २४ ॥

 शास्त्रज्ञश्च [६].कृतज्ञश्च पुरुषान्तरकोविदः ।
 यः प्रग्रहानुग्रहयोः यथान्यायं विचक्षणः ॥ २५ ॥


  1. लौकिके-लोकैकप्रमाणके समयाचारे-साङ्केतिकाचारे कृतकल्पः कृतसंस्थापनः, विशारदः तदाचरणसमर्थः-गो.
  2. गुप्तमन्त्रः-ङ.
  3. गुप्तमन्त्रः-फलपर्यन्तमन्यैरविदितमन्त्रः-गो.
  4. प्रियादिगणपठितभक्तिशब्दपरकत्वादिति यावत् ।
  5. रामे दोषलेशस्याप्यभावादेवं व्याख्यानम् ।
  6. कृतं कृतान्तं सिद्धान्तं जानातीति कृतज्ञः । अतः कथञ्चिदुपकारेण कृतेनैकेन तुष्यति' इत्यनेन न पुनरुक्तिः-गो