पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
6
[अयोध्याकाण्डः
रमाभिषेकचिन्तनम्

 अरोगस्तरुणो वाग्मी वपुष्मान् देशकालवित् ।
 [१]लोके पुरुषसारज्ञः साधुरेको विनिर्मितः ॥ १८ ॥

 वपुष्मान् 'विपुलांसो महाबाहुः' इत्याद्युक्तलक्षणवपुर्विशेषवान् । पुरुषाणां-ब्राह्मणादीनां सारं-स्वजातिवर्णाश्रमनित्यधर्मदृढप्रतिष्ठा नरूपं जानातीति तथा । इदमवश्यापेक्षितं राज्ञो निग्रहानुग्रहाय । एवं स एक एव रामो लोके सर्वगुणैः साधुः-भद्र उपपन्नो विनिर्मितः, ब्रह्मणा स्वांशोपादानेन ॥ ॥ १८ ॥

 स तु श्रेष्ठगुणैर्युक्तः प्रजानां पार्थिवात्मजः ।
 बहिश्चर इव प्राणो बभूव [२]गुणतः प्रियः ॥ १९ ॥

 एवमुक्तरूपैः श्रेष्ठगुणैर्युक्तत्वस्योपदेशस्सकृज्जातः । अतः परमपि तद्युक्तत्वं द्विरुपदिश्यते । एवं त्रिरुपदेशः, 'त्रिषत्या हि देवाः' इति न्यायेन वास्तवत्वबोधनाय । अत एव पौनरुक्त्यमशङ्क्यम् ॥

 [३]सर्वविद्याव्रतस्नातो यथावत्साङ्गवेदवित् ।
 इष्वस्त्रे च पितुः श्रेष्ठो बभूव भरताग्रजः ॥ २० ॥

 सर्वविद्येत्यादि । तत्तद्विद्यापेक्षित- ब्रह्मचर्यव्रतानन्तरमेव स्नातः-कृतसमावर्तनः । अत एव-यथावदित्यादि ॥ २० ॥

 कल्याणाभिजनः साधुरदीनः सत्यवागृजुः ।
 [४]वृद्धैरभिविनीतश्च, द्विजैर्धर्मार्थदर्शिभिः ॥ २१ ॥

 कल्याणः-शुभः-अभिजनः-मातृपितृवंशो यस्य स तथा । दर्शिभिरिति । समेत इति शेषः ॥ २१ ॥


  1. पुरुषसारज्ञः-सकृद्दर्शनमात्रेण पुरुषहृदयसर्वस्वज्ञः । लोके एक-अद्वितीयः साधुरिति विनिर्मितः-निश्चितः-गो.
  2. गुणवत्तरः-ङ.
  3. सम्यग्विद्या-ङ.
  4. वृद्धैः धर्मार्थदर्शिभिः द्विजैः अभिविनीतः-शिक्षित इत्येकं वाक्यं वा ।