पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१ सर्गः]
5
प्रीतिरेषा कथं रामो राजा स्यान्मयि जीवति

 सानुक्रोशो जितक्रोधो ब्राह्मणप्रतिपूजकः ।
 दीनानुकम्पी धर्मज्ञो नित्यं प्रग्रहवान् शुचिः ॥ १५ ॥

 अनुक्रोशः-दया, दुःखिप्राणिषु । ब्राह्मणप्रतिपूजक इत्यादौ याजकादित्वात् षष्ठीसमासः । प्रग्रहवान्-इन्द्रियनिग्रहवान्; 'प्रग्रहस्तु तुलासूत्रे वन्द्यां नियमने भुजे' ॥ १५ ॥

 [१]कुलोचितमतिः क्षात्त्रं धर्मं स्वं बहुमन्यते ।
 [२]मन्यते परया [३]कीर्त्या महत्स्वर्गफलं ततः ॥ १६ ॥

 कुलोचितमतिः, अत एव क्षात्रं धर्मं बहुमन्यते । न च केवलमभिमानमात्रं, अपि तु ततः पुरुषार्थसिद्धेरेवेत्याह-मन्यत इत्यादि । क्षत्त्रस्य मुख्यधर्मभूतया प्रजासु पितृवत् कृपया सर्वशत्रु-संहारजकीर्त्या च ततः-तस्मात् क्षत्रियधर्मात् यतो महत्स्वर्गफलं अतो बहुमन्यते । यद्यपि ब्राह्मो धर्म एवापवर्गसाक्षात्साधनत्वेन महान् ; अथापि क्षत्रियस्य स्वधर्म एव बहुमन्तव्यः । 'श्रेयान् स्वधर्मो विगुणः' इत्यादेः ॥ १६ ॥

 [४]नाश्रेयसि रतो [५]यश्चन विरुद्धकथारुचिः |
 उत्तरोत्तरयुक्तौ च वक्ता वाचस्पतिर्यथा ॥ १७ ॥

 यश्चन-यः कश्चन पुमान् विरुद्धकथारुचिः-धर्मविरुद्ध कथारुचिर्भवति, तस्मिन्नश्रेयसि-अश्रेयस्करे न रतो भवति । वक्तेति । वादजल्पवितण्डादिष्विति शेषः ॥ १७ ॥


  1. कुलोचितमिदं-ङ.
  2. ततः स्वधर्मानुष्ठानात् आनुषङ्गिकया परया कीर्त्या सह महत् स्वर्गफलं मन्यते । चकाराभावादेवं योज्यम् ।
  3. प्रीत्या-च.
  4. अश्रेयसि-निष्फले कर्मणि न रतः-न सक्तः, कादाचित्कलीला न दुष्यतीति भावः; द्यूतादिषु न सक्त इत्यर्थः । विरूद्धकथा-धर्मविरुद्ध-ग्राम्यालापादि-गो.
  5. विद्वान्, नित्यं-ङ.