पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
4
[अयोध्याकाण्डः
रामाभिषेकचिन्तनम्

 [१]कथञ्चिदुपकारेण कृतेनैकेन तुष्यति ।
 न स्मरत्यपकाराणां [२]शतमप्यात्मवत्तया ॥ ११ ॥
 शीलवृद्धैर्ज्ञानवृद्धैर्वयोवृद्धैव सज्जनैः ।
 कथयन्नास्त वै [३]नित्यमस्त्रयोग्यान्तरेष्वपि ॥ १२ ॥

 शीलं-सुचरितं, ज्ञानं-आत्मानात्मवस्तुतत्त्वज्ञानं । अस्त्रयोग्यान्तरेषु-अस्त्रशस्त्रपरिश्रमयोग्यकालेष्वपि यदन्तरं तत्रापि तत्परिश्रममध्येष्वपि सज्जनैरेव कथयन्नास्ते । अन्यदा कैमुतिकसिद्धं सज्जनैकनित्यसम्भाषणम् ॥ १२ ॥

 बुद्धिमान् मधुराभाषी [४]पूर्वभाषी प्रियंवदः ।
 वीर्यवान्न च वीर्येण महता स्वेन विस्मितः ॥ १३ ॥

 मधुरं आभाषितुं शीलमस्त्यस्येति तथा । न च विस्मितः-अप्राप्तगर्वः ॥ १३ ॥

 [५]नचानृतकथो विद्वान् वृद्धानां [६]प्रतिपूजकः ।
 अनुरक्तः प्रजाभिश्व प्रजाश्चाप्यनु[७]रज्यते ॥ १४ ॥

 अनृतस्य कथा-कथनं यस्य स तथा । प्रजाभिरनुरक्तः प्राप्तानुरागः । प्रजाश्च स्वयमपि अनुरज्यते-अनुरञ्जते अनुरञ्जयतीति यावत् । रञ्जेश्यन्युपधालोपः ॥ १४ ॥


  1. कथञ्चित् कृतेनेत्यन्ययः ।
  2. आत्मवान् कः ? इति प्रश्नस्योत्तरमिवैतत् ।
  3. अस्त्राणा योग्यः-अभ्यासः, 'योग्यो गुणनिकाभ्यासः' इति वैजयन्ती; तस्यान्तरेषु-अवकाशेष्वपि-गो.
  4. पूर्वभाषी-नीचेष्वपि स्वयमेव पूर्वं भाषमाणः ।
  5. कल्पितेतिवृत्तकासत्काव्यालापवर्जित इत्यर्थः-गो.
  6. प्रत्युद्गम्यपूजकः प्रतिपूजकः ।
  7. रञ्जते-ङ.