पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१ सर्गः]
अथ राज्ञो बभूवैवं वृद्धस्य चिरजीविनः

 तेषामपि महातेजा रामो रतिकरः पितुः ।
 स्वयम्भूरिव भूतानां बभूव गुणवत्तरः ॥ ६ ॥

 स्वयंभूरित्यादिः [१]पूर्वसर्गे व्याकृतचरः ॥ ६ ॥

 स हि देवै[२]रुदीर्णस्य रावणस्य वधार्थिभिः ।
 अर्थितो मानुषे लोके जज्ञे विष्णुः सनातनः ॥ ७ ॥

 गुणवत्तरत्वे हेतुः–स हीत्यादि । हि यस्मात् रामः स्वयम्भूरेव सन् देवप्रार्थनया रावणवधाय मानुषे लोके तदवतारोचितनिजवैराज विष्णूपाधिना जज्ञे-अवतीर्णः अस्मादेव सकलकल्याणगुणकार्त्स्न्यम् ॥

 कौसल्या शुशुभे तेन पुत्रेणामिततेजसा ।
 [३]यथा वरेण देवानां अदितिर्वज्रपाणिना ॥ ८ ॥
 स हि रूपोपपन्नश्च वीर्यवाननसूयकः ।
 भूमावनुपमः सूनुर्गुणैर्दशरथोपमः ॥ ९ ॥

 सूनुरिति । कौसल्याया इति शेषः ॥ ९ ॥

 [४]स तु नित्यं प्रशान्तात्मा मृदुपूर्वं च भाषते ।
 उच्यमानोऽपि परुषं नोत्तरं प्रतिपद्यते ॥ १० ॥

 मृदुपूर्वं-मृदूक्तिपूर्वम् ॥ १० ॥


  1. बाल ७७-२३.
  2. उदीर्णः-उद्धतः.
  3. यथा च देवी देवानां-ङ.
  4. 'नित्यं प्रशान्तात्मा' इत्यस्यैव प्रपञ्चः उच्यमानोपीत्यादि । परुषमुच्यमानोऽपि उत्तरं न प्रतिपद्यते । तत्र हेतुः-नित्यं प्रशान्तात्मेति । न केवलमुत्तराप्रतिपत्तिः, किन्तु परुषवक्तारं प्रति मृदुपूर्वं भाषते-गो. परं त्वत्र 'उत्तरं न प्रतिपद्यते' इति सामान्यनिषेधो न युज्यते । ततोऽपि परुषमुच्यमानोऽपि परुषमुत्तरं न प्रतिपद्यते। किन्तु मृदुपूर्वमेव भाषत इति वान्वयः ।