पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
2
[अयोध्याकाण्डः
रामाभिषेकचिन्तनम्

 मातुलकुलं-मातुलकुलीयराज्यं । नित्यशत्रवः-कामादयः, तान् हन्तीति तथा । एतेन सकलसद्गुणसंपूर्तिरशत्रुघ्नस्योपदिष्टा । प्रीत्या-भरते नित्यनिसर्गप्रवृत्तया पुरस्कृतः । एतेन भरतादिनिर्बन्धतो गमनशङ्का वारिता ॥ १ ॥

 स तत्र न्यवसत् भ्रात्रा सह सत्कारसत्कृतः ।
 मातुलेनाश्वपतिना[१] पुत्रस्नेहेन [२]लालितः ॥ २ ॥

 स तत्रेति । भरतो मातुलकुल इत्यर्थः । विशिष्टवस्त्राभरण-भोजनादिरूपेण सत्कारेण सत्कृतः । पुत्रादप्यधिकस्स्नेहः-पुत्रस्नेहः ॥

 [३]तत्रापि निवसन्तौ तौ तर्प्यमाणौ च कामतः ।
 भ्रातरौ स्मरतां वीरौ वृद्धं दशरथं नृपम् ॥ ३ ॥

 तर्प्यमाणौ-कृन्नकारत्वात् 'कृत्यचः' इति णत्वम् । कामः-प्रागुक्तविषयविशेषः । स्मरतां-अस्मरतां । दशरथमिति । 'अधीगर्थ' इति षष्ठ्यभावः शेषविवक्षाभावात् ॥ ३ ॥

 राजाऽपि तौ [४]महातेजाः सस्मार प्रोषितौ सुतौ ।
 उभौ भरतशत्रुघ्नौ महेन्द्रवरुणोपमौ ॥ ४ ॥
 सर्व एव तु तस्येष्टाश्चत्वारः पुरुषर्षभाः ।
 स्वशरीराद्विनिर्वृत्ताश्चत्वार इव बाहवः ॥ ५ ॥
 विनिर्वृत्ताः-उत्पन्नाः । चत्वार इव बाहव इति अभूतोपमा ॥


  1. पुत्रविषयस्नेहतुल्यस्नेहेन-गो.
  2. पालितः-ङ.
  3. तत्र-तादृशोपचारपूर्णगृहे निवसन्तावपीत्यन्वयः । कामत इति तृतीयार्थे तसिः-गो.
  4. महावीरौ-ङ.