पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ श्रीः ॥
॥ श्रीरामचन्द्रपरब्रह्मणे नमः ॥


श्रीमद्वाल्मीकिरामायणम्
श्रीमन्माधवयोगिविरचितया
अमृतकतकाख्यव्याख्यया युतम्




अयोध्याकाण्डः
प्रथमः सर्गः
[रामाभिषेकचिन्तनम्]

 गच्छता मातुलकुलं भरतेन [१] तदाऽनघः ।
 शत्रुघ्नो नित्यशत्रुघ्नो नीतः प्रीतिपुरस्कृतः ॥ १ ॥

अमृतकतकव्याख्या

 एवं प्रथमकाण्डेन रामप्रसूतिसीतावरणान्ताक्षरार्थकमहाषोढाप्रथमपादार्थरामचरितविस्तारो वर्णितः । अथेदानीं द्वितीयकाण्डेन महाषोढाद्वितीयपादप्रथमाद्यक्षरार्थरामाभिषेकप्रतिबन्धादितद्वनवासान्तव्यापारः प्रतिपाद्यते । तत्राद्येन 'ज्येष्ठं श्रेष्ठगुणैर्युक्तं' 'यौवराज्येन संयोक्तुमैच्छत्' इति संक्षेपोपदिष्टा राजाभिषेकार्हगुणाः प्रतिपाद्यन्ते-गच्छतेत्यादि ।


  1. महात्मना-झ.