पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३६६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३२ सर्गः ]
325
तस्मै ददौ तदा रामो धनधान्यादिकं बहु

 अङ्गदानि विचित्राणि केयूराणि शुभानि च ।
 प्रयच्छति, सखे ! तुभ्यं भार्यायै गच्छती वनम् ॥ ८॥

 गच्छतीति नुमभावञ्छान्दसः ॥ ८ ॥

 पर्यङ्कमग्रथास्तरणं नानारत्नविभूषितम् ।
 तमपीच्छति वैदेही प्रतिष्ठापयितुं त्वयि ॥ ९ ॥

 त्वयीति । त्वद्गृह इत्यर्थः ॥ ९ ॥

 नागः शत्रुञ्जयो नाम मातुलो यं ददौ मम ।
 [१][२]निष्कसहस्रेण ददामि, द्विजपुङ्गव ! ॥ १० ॥

 शत्रुञ्जयो नाम प्रसिद्धं यं गजं मातुलो मम ददौ तं गजं ते ददामीति । तथा राममुद्राङ्कितानां निष्काणां सहस्रं च ददामि ॥ १०॥

 इत्युक्तः स हि रामेण सुयज्ञः [३]प्रत्यगृह्णत ।
 या रामलक्ष्मणसीतानां प्रयुयोजाशिषः शुभाः ॥ ११ ॥

 प्रत्यगृह्णतेति। अगृह्णीतेति यावत् ॥ ११ ॥

 अथ भ्रातरमव्यग्रं प्रियं रामः प्रियंवदः ।
 सौमित्रिं तमुवाचेदं ब्रह्मेव त्रिदशेश्वरम् ॥ १२ ॥

 ब्रह्मा त्रिदशेश्वरमिवेति । नियोक्तृनियोज्ययोः [४]परमावरप्रभुत्वे दृष्टान्तः ॥ १२ ॥


  1. तं ते निष्कं-रूप्यम् । तच्च तस्य गजस्य परिपालनार्थमिति भावः ।
  2. गजसहस्रेण-ङ.
  3. प्रतिगृह्य तत्-ङ,
  4. परमचरम-घ.