पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३६५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
324
[अयोध्याकाण्डः
यात्रादानम्

 [१]ततस्सन्ध्यामुपास्यांशु गत्वा सौमित्रिणा सह ।
 जुष्टं तत्प्राविशल्लक्ष्म्या रम्यं रामनिवेशनम् ॥ ३ ॥
 तमागतं वेदविदं प्राञ्जलिस्सीतया सह ।
 सुयज्ञमभिचक्राम राघवोऽग्निमिवार्चितम् ॥ ४ ॥

 अर्चितममिमिवेति । होमकाल इति शेषः ॥ ४ ॥

 जातरूपमयैर्मुख्यैः । [२]अङ्गदैः कुण्डलैः शुभैः ।
 सहेमसूत्रैर्मणिभिः केयूरैर्वलयैरपि ॥ ५ ॥

 सहेमसूत्रैर्मणिभिरिति । 'स्वर्णसूत्रस्यूतमुक्तादिरत्नमालाभिरित्यर्थः ॥ ५ ॥

 अन्यैश्च रत्नैर्बहुभिः काकुत्स्थः प्रत्यपूजयत् ।
 सुयज्ञं च तदोवाच रामस्सीताप्रचोदितः ॥ ६ ॥

 सीताप्रचोदित इति । सीतया सुयज्ञपत्न्यै दिव्याभरणदानाय सखीत्वात्प्रचोदित इत्यर्थः ॥ ६ ॥

 हारं च हेमसूत्रं च भार्यायै, सौम्य ! [३]हारय ।
 रशनां चाधुना सीता दातुमिच्छति ते, [४]सखे ! ॥ ७ ॥

 हेमसूत्रमप्युरो भूषणविशेषः ॥ ७ ॥


  1. सन्ध्योपासनं-माध्याह्निकम्, अथवा सन्ध्यानियताग्निहोत्रं ; अग्यगारस्थमित्युक्तेः- गो. रामवनप्रवासानन्तरमेव सूर्यास्तमनस्योत्तरत्र कथनात् एवं व्याख्यानम् ।
  2. अङ्गदैः- कूर्परोपरि धार्यैः बाहुभूषणैः । केयूरैः-भुजशिरोव्यापिफणा कारशीकरयुक्तबाहुभूषणैः । अथवा अंगदकेयूरयोः स्थूलस्वसूक्ष्मस्वाभ्यां भेदः-गो.
  3. हारय-प्रापय-ति.
  4. सखी-ङ. च.