पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३६४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३२ सर्गः ]
323
समानयत्सुयज्ञं च वासिष्ठं लक्ष्मणस्तथा

 वसिष्ठपुत्रं तु सुयज्ञमानयेत्यनेन मूलप्रभोर्दशरथस्य वसिष्ठपौरोहित्यं तत्पुत्रस्य तत्पुत्र इति न्यायेन स्वाचार्यस्य सुयज्ञस्य विशिष्यानयननियोगः । [१]अस्यैव गृहे आयुधस्थापनञ्च । सर्ग (३७) मानः सर्गः ॥ ३७ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे एकत्रिंशः सर्गः

द्वात्रिंशस्सर्गः

[यात्रादानम्]

 ततश्शासन [२][३]माज्ञाय भ्रातुः [४]शुभकरं प्रियम् ।
 गत्वा स प्रविवेशाशु सुयज्ञस्य निवेशनम् ॥ १ ॥

 एवं निश्चितसभ्रातृस्त्रीकवनगमनस्य रामस्य यात्रादानम् । तत इत्यादि ॥ १ ॥

 तं विप्रमग्न्यगारस्थं वन्दित्वा लक्ष्मणोऽब्रवीत् ।
 सखेऽभ्यागच्छ पश्य त्वं वेश्म दुष्करकारिणः ॥ २ ॥

 अग्न्यागारं-अग्निहोत्रगृहम् । हे सखे ! रामस्य वेश्माभ्यागच्छ । दुष्करकारिणो रामस्य कृत्यं च पश्य ॥ २ ॥


  1. गोविन्दराजीये तु-'इक्ष्वाकुगुरुमागम्य जग्राहायुधं' इति कथनात् 'निहितं सर्वमेतदाचार्यसपनि 'इत्यत्राचार्यः वसिष्ठ एव, स एव खलु इक्ष्वाकुकुलगुरुः---इति वसिष्ठगृह एवायुधस्थापनमुक्तम् ।
  2. आज्ञाय ज्ञात्वा ।
  3. आदाय, आस्थाय-ङ,
  4. प्रियकरं हितं-ङ. च. प्रियतरं शुभम्-ङ.