पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३६३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
392
[अयोध्याकाण्डः
लक्ष्मणवनानुगमनाभ्यनुज्ञा

 तद्दिव्यं [१]रघुशार्दूलः सत्कृतं माल्यभूषितम् ।
 रामाय दर्शयामास सौमित्रिस्सर्वमायुधम् ॥ ३३ ॥
 तमुवाचात्मवान् रामः [२]प्रीत्या लक्ष्मणमागतम् ।
 काले त्वमागतः, सौम्य ! काङ्क्षिते मम, लक्ष्मण ! ॥
 अहं प्रदातुमिच्छामि यदिदं मामकं धनम् ।
 ब्राह्मणेभ्यस्तपस्विभ्यस्त्वया सह, परन्तप ! ॥ ३५ ॥

 मम कांक्षिते-मदभीष्टप्रयोजनसंपादननिमित्तम् । काले-उचितकाले । आगतः ॥ ३४-३५ ॥

 वसन्तीह दृढं भक्त्या गुरुषु द्विजसत्तमाः ।
 तेषामपि च मे भूयस्सर्वेषाञ्चोपजीविनाम् ॥ ३६ ॥

 वसन्तीति । इह-मत्समीपे । गुरुषु दृढं भक्तयोपेताः । एतेन पूर्णविद्यतया दानपात्रत्वं द्योतितम् ॥ ३६॥

 वसिष्ठपुत्रं तु सुयज्ञमार्यं
  त्वमानयाशु प्रवरं द्विजानाम् ।
 अभिप्रयास्यामि वनं समस्तान्
  अभ्यर्च्य शिष्टानपरान् द्विजातीन् ॥ ३७॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे एकत्रिंशः सर्गः


  1. राजशार्दूलसत्कृतं-ङ.
  2. प्रीत्या उवाचेत्यन्वयः,