पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३६०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३१ सर्गः]
319
अङ्गीचकार सौमित्रेः प्रार्थनां रघुनन्दनः

राममात्रुपेक्षायां ममानर्थो महान् भवितेति मत्वा सम्यक् पूजयिष्यतीत्यर्थः ॥ १९ ॥

 [१]यदि दुष्टो न रक्षेत भरतो राज्य [२]मुत्तमम् ।
 प्राप्य दुर्मनसा, वीर ! गर्वेण च विशेषतः ॥ २० ॥
 तमहं दुर्मतिं क्रूरं वधिष्यामि न संशयः ।
 तत्पक्ष्यानपि तान् सर्वास्त्रैलोक्यमपि, [३]किन्नु सा ॥ २१ ॥
 कौसल्या बिभृयादार्या सहस्रमपि मद्विधान् ।
 यस्यास्सहस्रं ग्रामाणां संप्राप्त [४]मुपजीविनाम् ॥ २२ ॥

 तदेव कालान्तरीय तस्य भयं प्रदर्शयति-यदीत्यादि । त्रैलोक्यमपीति । तत्पक्ष्यं वधिष्यामीत्यनुकर्षः । वध हिंसायामिति प्रकृत्यन्तरम् । इदानीं स्वात्मभरणे-स्वसंरक्षणे कौसल्यायाः कस्याप्यपेक्षा नास्तीति दर्शयति-किन्वित्यादि । या कौसल्या सहस्रं मद्विधानपि बिभृयात्, सा स्वात्मानं बिभृयादिति किन्नु-किमु । कुतस्तस्या एवं शक्तिरित्यत्राह-यस्या इत्यादि । यस्याः [५] [६]उपजीविनां ग्रामाणां सहस्रं प्राप्तमभूत् ॥ २२ ॥

 तदात्मभरणे चैव मम मातुस्तथैव च ।
 पर्याप्ता मद्विधानां च भरणाय यशस्विनी ॥ २३ ॥

 यदेवं अतः-तदित्यादि ॥ २३ ॥


  1. इदं श्लोकद्वयं कुत्रचिन्नोपलभ्यते-ङ.
  2. उत्तमं राज्यं प्राप्येत्यन्वयः.
  3. किन्तु सा-ङ.
  4. उपजीवनं-स्वेष्टविनियोगाय दीयमानम्.
  5. प्रसादात् अस्य प्राप्तमित्यत्रान्वयः । सम्बन्धसामान्ये षष्ठी। उपजीविभि: प्राप्तमिति यावत् । स्वोपजीविभ्यो ग्रामसहस्रदानेऽपि यदि शक्तिवर्तते तर्हि स्वरक्षणे किमु वक्तव्यमित्याशयः
  6. मुपजीवनम्-ङ.