पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३६१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
320
[अयोध्याकाण्डः
लक्ष्मणवनानुगमनाभ्यनुज्ञा

 कुरुष्व मामनुचरं वैधर्म्यं नेह विद्यते ।
 कृतार्थोऽहं भविष्यामि तव चार्थः प्रकल्पते ॥ २४ ॥

 यदेवं अतो मामनुचरं कुरुष्व-स्वानुमतिं देहीति यावत् । इह-मत्सेवानुमतौ वैधर्म्यं-वैपरीत्यसाधकं न विद्यते । त्वदुक्तहेतोरन्यथा सिद्धत्वस्य दर्शितत्वादित्याशयः । अर्थः प्रकल्पत इति । फलमूला-द्याहरणरूपप्रयोजनमपि स्वप्रयासं विना ते प्रसिध्यति । अहं-अहं च तेन कृतार्थो भवामि । अत उभयहितं मदनुगमनमित्यर्थः ॥ २४ ॥

 धनुरादाय सशरं खनित्रपिटकाधरः ।
 "अग्रतस्ते गमिष्यामि पन्थानं [१]तव दर्शयन् ॥ २५ ॥

 तदेव प्रयोजनं दर्शयति-धनुरादायेत्यादि । श्वापदादिरक्षाप्रयोजनो धनुग्रहः ॥ २५ ॥

 आहरिष्यामि ते नित्यं मूलानि च फलानि च ।
 वन्यानि यानि चान्यानि [२] [३]स्वाहाराणि तपस्विनाम् ॥

 तपस्विनां स्वाहाराणीति । स्वभूतान्याहाराणि, सुष्ठन्याहाराणि च ॥ २६ ॥

 भवांस्तु सह वैदेह्या गिरिसानुषु रंस्यते ।
 अहं सर्वं करिष्यामि जाग्रतः स्वपतश्च ते ॥ २७ ॥

 स्वपतश्च करिष्यामीत्यनेन रात्रौ निर्निद्रत्वं प्रकाश्यते ॥ २७ ॥

 रामस्त्वनेन वाक्येन सुप्रीतः प्रत्युवाच तम् ।
 [४]व्रजापृच्छस्व, सौमित्रे ! सर्वमेव सुहृज्जनम् ॥ २८ ॥


  1. अनुदर्शयन्-ङ.
  2. स्वाहार्हाणि तपस्विनाम् । स्वाहाणि-होमयोग्यानीति यावत्-ति.
  3. स्वहार्हाणि-ङ. च.
  4. सर्वं सुहृज्जनमापृच्छस्व-तेभ्योऽनुमतिं गृहाण-तदर्थं व्रजेति वाऽर्थः