पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३५९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
318
[अयोध्याकाण्डः
लक्ष्मणवनानुगमनाभ्यनुज्ञा

 तर्हि भरतो वा पुत्रत्वाद्रक्षिष्यतीत्यत्राह--न स्मरिष्यतीत्यादि । तत्र हेतुः-राज्यमासाद्य कैकेय्यां-तन्नियोगे सपत्नीतिरस्कारविषयके पर्यवस्थितः-प्रतिष्ठितः ॥ १४ ॥

 तामार्यां स्वयमेवेह राजानुग्रहणेन वा ।
 सौमित्रे ! भर कौसल्यां उक्तमर्थमिमं चर ॥ १५ ॥

 तर्हि मया वा रक्षणं कथं शक्यमित्यत्राह—राजानुग्रहणेनेति । दशरथानुग्रहबलादित्यर्थः ॥ १५ ॥

 [१] एवं मयि च ते भक्तिर्भविष्यति सुदर्शिता ।
 धर्मज्ञगुरुपूजायां धर्मश्राप्यतुलो महान् ॥ १६ ॥

 एवं मयि चेति । मदाज्ञया मातृशुश्रूषणेनापीत्यर्थः ॥ १६ ॥

 एवं कुरुष्व, सौमित्रे ! मत्कृते, रघुनन्दन !
 अस्माभिर्विग्रहीणाया मातुनः- अस्माकं मातुः[२]र्नो न भवेत्सुखम् ॥ १७ ॥

 विप्रहीणा-वियुक्ता 'उपसर्गाद्वहुलम्' इति बहुलग्रहणाण्णत्वम् । 'प्रहीणो ग्रामः' इत्यादौ प्रयोगः प्रसिद्धः ॥ १७ ॥

 एवमुक्तस्तु रामेण लक्ष्मणः श्लक्ष्णया गिरा ।
 प्रत्युवाच तदा रामं वाक्यज्ञो वाक्यकोविदम् ॥ १८ ॥
 तवैव तेजसा, वीर ! भरतः पूजयिष्यति ।
 कौसल्यां च सुमित्रां च प्रयतो नात्र संशयः ॥ १९ ॥

 अथ मातृरक्षायां भरत एवास्त इत्याह--भरतः पूजयिष्यतीति । तत्र रामोक्तानुपपत्तिं परिहरति-तवैव तेजसेति । अप्रमेयबलवैभव-


  1. एवं कृत एव मद्विषयभक्तिस्त्वया सम्यग्दर्शिता भविष्यति इत्यर्थः
  2. कौसल्यासुमित्रयोः एकत्वं लोके प्रयोगरूढ्या ।