पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३५८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३१ सर्गः]
317
बहुधा प्रार्थयामास रामं रामानुजस्तदा

 ततोऽब्रवीन्महातेजा रामो लक्ष्मणमग्रतः ।
 स्थित [१]प्राग्गामिनं वीरं याचमानं कृताञ्जलिम् ॥ ९ ॥

 अग्रतस्स्थितं-प्राग्गामिनं-निश्चितवनप्रथमगमनं-तत्रानुमतिं याचमानम् ॥ ९॥

 स्त्रिग्धो धर्मरतो वीरस्सततं सत्पथे स्थितः ।
 प्रियः प्राणसमो वश्यो [२] व.भ्राता चासि सखा च मे ॥ १० ॥

 वश्यविधेयौ मुहुर्व्याकृतौ ॥ १० ॥

 मयाऽद्य सह, सौमित्रे ! त्वयि गच्छति तद्वनम् ।
 को [३]भरिष्यति कौसल्यां सुमित्रां वा यशस्विनीम् ॥ ११ ॥

 को भरिष्यतीति । एवञ्च मातृपरिरक्षणार्थमेव प्रतिषिध्यसे । पूर्वन्तु आभिषेचनिकालंकारप्रतिसंहारविषये मदनुविधानं मदिष्टत्वादुक्तम् । न तु वनानुगमने मदनुविधानमनुशिष्टमित्युक्तं भवति ॥ ११॥

 अभिवर्षति कामैर्यः पर्जन्यः पृथिवीमिव
 स काम[४]पाशपर्यस्तो महातेजा महीपतिः ॥ १२ ॥

कामैः–इष्टान्नपानादिरूपैः। ननु वास्ते रक्षकः इत्यत्राह स कामपाशेत्यादि ॥ १२ ॥

 सा हि राज्यमिदं प्राप्य नृपस्याश्वपतेस्सुता ।
 दुःखितानां सपत्नीनां न करिष्यति शोभनम् ॥ १३ ॥
 न स्मरिष्यति कौसल्यां सुमित्रां च सुदुःखिताम् ।
 भरतो राज्यमासाद्य कैकेय्यां पर्यवस्थितः ॥ १४ ॥


  1. प्राग्गामिनं-प्रागेव गन्तुमुद्युक्तम्-गो. वनं प्रति प्रथमगमनाभिप्रायवन्तम्-ति.
  2. विधेयश्वासि-ङ.
  3. भजिष्यति-ङ. च. हि रक्षति-ङ.
  4. वश-ङ.