पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३५७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
316
[अयोध्याकाण्डः
लक्ष्मणवनानुगमनाभ्यनुज्ञा

 मया समेतोऽरण्यानि [१]रम्याणि विचरिष्यसि ।
 पक्षिभिर्मृगयूथैश्च संघुष्टानि समन्ततः ॥ ४ ॥

 समेतः समेतेति च परिणामः ॥ ४ ॥

 [२]न देवलोकाक्रमणं नामरत्वमहं वृणे ।
 ऐश्वर्यं वाऽपि लोकानां कामये न त्वया विना ॥ ५ ॥

 आक्रमण-आरोहः ॥ ५ ॥

 एवं ब्रुवाणस्सौमित्रिर्वनवासाय निश्चितः ।
 रामेण बहुभिस्सान्त्वैर्निषिद्धः पुनरब्रवीत् ॥ ६ ॥

 अनुज्ञातश्च भवता पूर्वमेव यदस्म्यहम् ।
 किमिदानीं पुनरिदं क्रियते मे निवारणम् ॥ ७ ॥

 पूर्वमेव भवताऽनुज्ञात इति । 'तस्मादपरितापस्सन् त्वमप्यनुविधाय माम् । प्रतिसंहारय क्षिप्रमाभिषेचनकीं क्रियाम्' (अयो.२३, २६) [३]इत्यनुशासनादित्यर्थः ॥ ७ ॥

 यदर्थं प्रतिषेधो मे क्रियते गन्तुमिच्छतः ।
 एतदिच्छामि विज्ञातुं संशयो हि ममानघ ! ॥ ८ ॥

 एतदिच्छामीति । एतत्-मत्प्रतिषेधप्रयोजनमित्यर्थः । संशयो हीति । पूर्वं किमभिप्रायतोऽनुमतिः ? इदानीं किमभिप्रायेण प्रतिषेधः ? इति सन्देहो जायत इत्यर्थः ॥ ८ ॥


  1. बहूनि-ङ.
  2. देवलोकः-उपनिषत्सु प्रतिपन्नो मोक्षः । अमरत्वं चैवस्ये लोकानामश्वर्यं-
    ऐहिकमामुष्मिकं च-गो.
  3. 'भ्रातृपुत्रसमौ चापि द्रष्टव्यौ च विशेषतः । त्वया भरतशत्रुघ्नौ प्राणः प्रियतरौ मम ॥ 'इति भरतशत्रुघ्नयोरेवानुसरणीयत्वोक्तेश्च-गो.