पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३५६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३१ सर्गः]
315
तदैच्छलक्ष्मणोऽप्येवं अनुगन्तुं रघूद्रहम्

एकत्रिंशस्सर्गः

[लक्ष्मणवनानुगमनाभ्यनुज्ञा]

 एवं श्रुत्वा स संवादं लक्ष्मणः पूर्वमागतः ।
 बाष्पपर्याकुलमुखः शोकं सोडुमशक्रुवन् ॥ १ ॥
 स भ्रातुश्चरणौ गाढं निपीड्य रघुनन्दनः ।
 सीतामुवा[१] चातियशां राघवं च [२]महाव्रतम् ॥ २ ॥

 एवं [३]दृढनिश्चितससीतरामगमनलक्ष्मणकृतानुगमनप्रार्थनेन रामेण लक्ष्मणानुगमनानुमतिः एवमित्यादि । उक्तप्रकार सीतारामसंवाद श्रुत्वेति-तत्र हेतुः-लक्ष्मणः पूर्वमागत इति । संवादप्रवृत्तेः पूर्वमेव रामेण सह मातृगृहमागत इत्यर्थः । अतियशां-उत्कृष्ट-कीर्तिमतीं । महाव्रतं-वनवासलक्षणमहाव्रतकृत-निश्चयमित्यर्थः ॥ २ ॥

 [४]यदि गन्तुं कृता बुद्धिः वनं मृगगजायुतम् ।
 अहं त्वाऽनुगमिष्यामि वनमग्रे धनुर्धरः ॥ ३ ॥

 गन्तुं बुद्धिः कृता यदीति । युवाभ्यामिति शेषः । अहन्त्वेति । हे प्रजावति ! त्वां, हे राम ! त्वां चेत्यर्थः । वनमनुगमिष्यामि-वनं गन्तारौ युवामनुगमिष्यामि । अपि च गमनकाले अग्रत एव धनुर्धरो गमिष्यामि ॥ ३ ॥


  1. अतियशाः-इति प्रसिद्धस्स्वरसश्च पाठ: लक्ष्मणविशेषणं । को वा एवं
    स्वभार्यामपि परित्यज्यान्येन सपत्नीकेन साकं वनं गच्छेदित्याशयः
  2. महाव्रतं--'अभयं सर्वभूतेभ्यो ददाम्येनद्व्रतं मम' इत्युक्तगुरुतरव्रतयुक्तम्-गो. युक्तश्चैतदेव । व्रत शब्दस्वारस्यात् । चरणौ निपीड्येति–अत्रापि शरणागतेः वात्.
  3. दृष्टनिश्चित-क.
  4. यदीत्यनेन रामवनगमने स्वानभिमतिरसूच्यते लक्ष्मणेन ।