पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३५५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
314
[अयोध्याकाण्डः
सीतावनानुगमनाभ्यनुज्ञा

 भूषणानि महार्हाणि वरवस्त्राणि यानि च ।
 रमणीयाश्च ये केचित् क्रीडार्थाचाप्युपस्कराः ॥ ४४ ॥

 [१]उपस्कराः-परिकराः ॥ ४४ ॥

 शयनीयानि यानानि मम चान्यानि यानि च ।
 देहि स्वभृत्य [२]वर्गस्य [३]ब्राह्मणानामनन्तरम् ॥ ४५ ॥
 अनुकूलं तु सा भर्तुर्ज्ञात्वाऽऽगमनमात्मनः ।
 [४]क्षिप्रं प्रमुदिता देवी दातुमेव प्रचक्रमे ॥ ४६ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे त्रिंशस्सर्गः


 आत्मनः आगमनं-अनुगमनमिति यावत् । ऋताभि (४६) मानः सर्गः ॥ ४६ ॥

इति श्रीमद्रामायणामृतकतकटीकायामयोध्याकाण्डे त्रिंशस्सर्गः



  1. क्रीडार्थो उपस्कराः--स्वर्णमयपुत्रिकाद्युपकरणानि--ति.
  2. वर्गेभ्यः-ङ.
  3. ब्राह्मणानामनन्तरं स्वभृत्यवर्गस्य देहीति सम्बन्धः-गो. ब्राह्मणानां ब्राह्मणसंप्रदानकदानानामनन्तरम्-शि. अथवा शयनादीनां रामोपभुक्तत्वेन तेषां ब्राह्मणेभ्यो दानस्यानुचितत्वात् तानि भृत्यवर्गाय देहि, ब्राह्मणानां तु अनन्तरं-समनन्तरोक्तं रत्नादि देहीति वाऽर्थः । अत एव "पर्यङ्कमग्रयास्तरणं-प्रतिष्ठापयितुं" इति व्यङ्ग्यमर्यादयोच्यते । न तु स्पष्टं दानम् इति केचित् ॥
  4. एतदनन्तरं-'ततः प्रहृष्टा प्रतिपूर्णमानसा यशस्विनी भर्तुरपेक्ष्य
    भाषितम् । धनानि रत्नानि च दातुमङ्गना प्रचक्रमे धर्मभृतां मनस्विनी ॥'
    इत्यधिकम्-ङ. झ.