पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३० सर्गः]
313
सीताऽपि भृशसन्तुष्टा बभूव गमनोत्सुका

 [१]मम सन्ना मतिः, सीते ! नेतुं त्वां दण्डकावनम् ।
 वसिष्यामीति सा त्वं मामनुयातुं सुनिश्चिता ॥ ३९ ॥

 नेतुं मतिस्सन्नेति । त्वद्भावापरिज्ञानादिति शेषः । सुनिश्चितासुनिश्चितेति ज्ञाता । इदानीमिति शेषः ॥ ३९ ॥

 सा हि [२]दिष्ट्या नवद्याङ्गि ! वनाय, मदिरेक्षणे !
 अनुगच्छस्व मां, भीरु ! सहधर्मचरी भव ॥ ४० ॥

 दिष्ट्या वनाय-वनं गन्तुं निश्चिता सा त्वमनुगच्छस्व ॥ ४० ॥

 सर्वथा सदृशं, सीते ! मम स्वस्य कुलस्य च ।
 [३]व्यवसाय [४]मनुक्रान्ता, कान्ते ! त्वमतिशोभनम् ॥ ४१ ॥

 व्यवसायं–निश्चयं । अनुक्रान्ता--अनुप्राप्ता ॥ ४१ ॥

 आरभस्व, शुभश्रोणि ! [५]वनवासक्षमाः क्रियाः ।
 नेदानीं त्वदृते, सीते ! स्वर्गोऽपि मम रोचते ॥ ४२ ॥

 इदानीमिति । एवं दृढनिश्चये सतीत्यर्थः ॥ ४२ ॥

 ब्राह्मणेभ्यश्च रत्नानि भिक्षुकेभ्यश्च भोजनम् ।
 देहि चाशंसमानेभ्यः सन्त्वरस्व च मा चिरम् ॥ ४३ ॥

 रत्नानि-उत्तमवस्तूनि । भिक्षुकाः-तापसादयः । भोजनमाशंसमानेभ्यः-प्रार्थयमानेभ्य इत्यर्थः ॥ ४३ ॥


  1. यतो वने वसिष्यामीति दृढनिश्चयेन त्वं मामनुयातुं सुनिश्चिता, अतस्त्वां दण्डकावनं नेतुं मम या मतिः-तद्विरुद्धाऽऽसीत्-सेदानीं सन्ना-विशीर्णा-ति.
  2. दिष्टा-ङ.-च. सृष्टा-च. दिष्टा-अनुज्ञाता-ति. सृष्टा-दैवेनेति शेषः- गो.
  3. व्यवसायं-भर्त्रनुसरणाध्यवसायं अतिक्रान्ता प्रकर्षेण प्राप्ता-गो.
  4. मतिक्रान्ता, मनुप्राप्ता-ङ.
  5. वनवासक्षमाः-वनवासयोग्याः क्रियाः-दानादिक्रियाः--गो.