पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
312
[अयोध्याकाण्डः
सीतावनानुगमनाभ्यनुज्ञा

 [१] [२]यत्र त्रयं त्रयो लोकाः पवित्रं तत्समं भुवि ।
 नान्यदस्ति, शुभापाङ्गे ! तेनेदमभिराध्यते ॥ ३४ ॥

 यत्र त्रयमिति । पितृमातृगुरुरूपामति यावत् ॥ ३४ ॥

 न सत्यं दान मानौ वा न यज्ञाश्चाप्तदक्षिणाः ।
 तथा बलकराः, सीते ! यथा सेवा पितुर्हिता ॥ ३५ ॥

 बलकराः-परलोकबलकरा इति यावत् । हिता-हितावहा पितुस्सेवा यथा न तथेति व्यतिरेके ॥ ३५ ॥

 स्वर्गो धनं वा धान्यं वा विद्याः पुत्रास्सुखानि च ।
 [३]गुरुवृत्त्यनुरोधेन न किश्चिदपि दुर्लभम् ॥ ३६ ॥

 गुरुवृत्तिः-गुरूचितवृत्तिः ॥ ३६॥

 देवगन्धर्वगोलोकान् ब्रह्मलोकांस्तथा'[४]परान् ।
 प्राप्नुवन्ति महात्मानो मातापितृपरायणाः ॥ ३७ ॥

 गवां लोकाः-गोलोकाः ॥ ३७ ॥

  [५]स मा पिता यथा शास्ति सत्यधर्मपथे स्थितः ।
 तथा वर्तितुमिच्छामि स हि धर्मस्सनातनः ॥ ३८ ॥

 मा-मामिति यावत् ॥ ३८ ॥


  1. यत्र पित्राराधने सति त्रयं धर्मार्थकामरूपं भवति त्रयो लोकाश्च साधिता भवन्ति तत्समं पवित्रं भुवि नास्ति-ति. यत्त्रयं तत्त्रयो लोकाः यत्-गुर्वादित्रयं तत् त्रयो लोकाः । लोकत्रयमपि तदाराधनसाध्यमित्यर्थः-गो.
  2. यत्त्रयं तत्त्रयो लोकाः-ङ,
  3. मानः-देवपूजा । आप्तदक्षिणाः-इष्टदक्षिणाः-यथेष्टदक्षिणाः- सर्वस्वदक्षिणा इति यावत् । गुरौ वृत्तिः-गुरुवृत्तिः गुरुशुश्रूषेति यावत् ।
  4. नरः-ङ,
  5. स मां-ङ.