पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३५२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३० सर्गः]
311
ततोऽनुमेने तां नेतुं वनं स्वेनैव राघवः

 [१]यत्सृष्टाऽसि मया सार्धं वनवासाय, मैथिलि !
 न विहातुं मया शक्या [२]कीर्तिरात्मवता यथा ॥ २९ ॥

 यत् सृष्टाऽसि [३]निश्चिताऽसि । इदानीमिति शेषः ॥ २९ ॥

 धर्मस्तु, गजनासोरु ! सद्भिराचरितः पुरा
 तं चाहमनुवर्तिष्ये यथा सूर्यं सुवर्चला ॥ ३० ॥

 सर्वात्मना सहृदयायास्ते सह नयनं धर्मश्चेत्याह–धर्म इत्यादि । तं च-पूर्वाचरितधर्ममित्यर्थः । त्वञ्च यथा सूर्यं सुवर्चलाऽन्ववर्तत तथा मामनुवर्तस्व ॥ ३० ॥

 न खल्वहं न गच्छेयं वनं, जनकनन्दिनि !
 वचनं तन्नयति मां पितुस्सत्योपबृंहितम् ॥ ३१ ॥

 मम तु गमनं निश्चितमेवेत्याह-न खल्वित्यादि । न गच्छेयमिति न खलु ; गच्छेयमेव सर्वथेत्यर्थः । कुत इत्यतः-वचनमित्यादि ॥

 एष धर्मश्च, सुश्रोणि पितुर्मातुश्च वश्यता ।
 [४]अतश्च तं व्यतिक्रम्य नाहं जीवितुमुत्सहे ॥ ३२ ॥

 एष इत्येतच्छब्दार्थः पितुर्मातुश्च वश्यतेति । वश्यता-इष्टानुवर्तिता ॥ ३२ ॥

 [५]अस्वाधीनं कथं दैवं प्रकारैरभिराध्यते ।
 स्वाधीनं समतिक्रम्य मातरं पितरं गुरुम् ॥ ३३ ॥

 अस्वाधीनमिति अप्रत्यक्षत्वादेव । प्रकारैः-भावनामात्र-साध्याराधनप्रकारैः ॥ ३३ ॥


  1. सृष्टा-दैवेनेति शेषः-गो.
  2. प्रीति-ङ, च.
  3. 'मुक्तनिर्मितयोः प्राज्ये त्रिषु सृष्टं तु निश्चिते' इति रुद्रः ।
  4. आशां चाहं-ङ.
  5. प्रत्यक्षदैवाराधनं विहायाप्रत्यक्षदैवस्याराधनं कथं युक्तं स्यादिति भावः ।