पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३५१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
310
[अयोध्याकाण्डः
सीतावनानुगमनाभ्यनुशा

 [१] [२]तच्चैवामलचन्द्राभं मुखमायतलोचनम् ।
 पर्यशुष्यत [३].बाष्पेण जलोद्धृतामिवाम्बुजम् ॥ २५ ॥

 जलादुद्धृतं-विलूय गृहीतमिति यावत् ॥ २५ ॥

 तां परिष्वज्य बाहुभ्यां विसंज्ञामिव दुःखिताम् ।
 उवाच वचनं रामः परिविश्वासयंस्तदा ॥ २६ ॥

 परिविश्वासयन्-श्वसप्राणने, उज्जीवयन् ॥ २६ ॥

 न, देवि! तव [४]दुःखेन स्वर्गमप्यभिरोचये ।
 न हि मेऽस्ति भयं किञ्चित् [५]स्वयंभोरिव सर्वतः ॥ २७ ॥

 तव दुःखेनेति । तब वियोगदुःखेन, प्राप्यमिति शेषः । स्वयंभोर्भगवतो ब्रह्मणः सर्वतो भयाभावः स्वव्यतिरिक्ततत्त्ववस्त्वन्तराभावेन 'द्वितीयाद्वै भयम्' इति श्रुतेः । अत्र तु सर्वतो भयाभावमात्रे दृष्टान्तः । अत्र निर्भयत्वं पूर्णबलप्रयुक्तम् ॥ २७ ॥

 तव सर्वमभिप्रायमविज्ञाय, शुभानने !
 वासं न रोचयेऽरण्ये शक्तिमानपि रक्षणे ॥ २८ ॥

 सर्वं-समग्रं आन्तरं अभिप्रायमविज्ञाय तत एव हेतोस्तव वनवासं न रोचये-नाङ्गीकृतवान् । इतः प्राक् इति शेषः ॥ २८ ॥


  1. सिता-पूर्णमासी । तत्सम्बन्धी अमलः राह्वाद्यनुपरक्तः यश्चन्द्रः तत्सदृशं-ति.
  2. तत्सितामलचन्द्राभं--तच्चै वामलसंकाशं-ङ.
  3. बाष्पेण-सन्तापभवेनोष्णेन ; अम्बुजपक्षे ऊष्मणेत्यर्थः' बाष्पमूष्माश्रु' इत्यमरः- गो
  4. हेतौ वेयं तृतीया । तव दुःखसंपादनेन मम यदि स्वर्गं वा भवेत् तदा स्वर्गे नाहं कामये इति भावः ।
  5. स्वयंभोः-नारायणस्य, न चतुर्मुखस्य; तस्य मधुकैटभादिभ्यो भयसंभवात् । आर्षो डुप्रत्ययः । सर्वतः-सर्वजन्तुभ्यः-गो. सर्वतः- यस्मात् कस्मादपि, 'सर्वावस्थां गतः ' 'सर्वावस्थसकृत्प्रपन्नजनतासंरक्षणैकवती' इत्यादाविव प्रातिस्विकतः सर्वापेक्षया ।