पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३५०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३० सर्गः]
309
तां परिष्वज्य बाहुभ्यां राघवः पर्यसान्त्वयत्

 यस्त्वया सह स स्वर्गो निरयो यस्त्वया विना ।
 इति जानन् परां प्रीतिं गच्छ, राम ! मया सह ॥ १८ ॥
 अथ मामव [१]मव्यग्रां वनं नैव नयिष्यसे ।
 विषमद्यैव पास्यामि [२]मा वशं द्विषतां गमम् ॥ १९ ॥

 कैकेयीवन्मथितसिद्धान्तमाह–अथेत्यादि । प्रश्नेऽथशब्दः । द्विषतां वशं मा गमम् । भरतादयो द्विषन्तः ॥ १९ ॥

 पश्चादपि हि दुःखेन मम नैवास्ति जीवितम् ।
 उज्झितायास्त्वया, नाथ ! तदैव मरणं [३]वरम् ॥ २० ॥

 पश्चादपीति । किञ्चित्कालानन्तरमपीत्यर्थः । यदेवमतः- तदैव-त्वद्वियोगकाल एवेत्यर्थः ॥ २० ॥

 इमं हि सहितुं शोकं मुहूर्तमपि नोत्सहे ।
 किं पुनर्दशवर्षाणि त्रीणि चैकं च दुःखिता ॥ २१ ॥
 इति सा केसन्तप्ता विलप्य करुणं बहु ।
 चुक्रोश पात [४]मायस्ता भृशमालिङ्ग्य सस्वरम् ॥ २२ ॥

 सस्वरं-सशब्दमिति यावत् ॥ २२ ॥

 सा विद्धा बहुभिर्वाक्यैर्दिग्धौरिव गजाङ्गना ।
 चिरसन्नियतं बाष्पं मुमोचाग्निमिवारणिः ॥ २३ ॥

 दिग्धैः-विषलिप्तबाणैः । सन्नियतं-सम्यनिरुद्धम् ॥ २३ ॥

 तस्याः स्फटिकसङ्काशं वारि सन्तापसंभवम् ।
 नेत्राभ्यां परिसुस्राव पङ्कजाभ्यामिवोदकम् ॥ २४ ॥


  1. अव्ययां-वनगमने भीतिरहिताम्-गो.
  2. माविशं द्विषतां वशं-ङ.
  3. ध्रुवं-ङ,
  4. आयस्ता आयासं प्राप्ता.