पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३४९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
308
[अयोध्याकाण्डः
सीतावनानुगमनाभ्यनुज्ञा है

 कुशकाशशरेषीका ये च कण्टकिनो द्रुमाः ।
  [१] तूलाजिनसमस्पर्शा मार्गे मम सह त्वया ॥ १२ ॥

 तुलैः, [२]अजिनविशेषैः शीतमृदुस्पर्शवद्भिस्समास्तथा ॥ १२ ॥

 महावातसमुद्धूतं यन्मा[३]मवकरिष्यति ।
 रजो, रमण ! तन्मन्ये पारार्ध्यमिव चन्दनम् ॥ १३ ॥
 शाद्वलेषु यदा शिश्ये वनान्तर्वनगोचरा ।
 [४]कुथास्तरणयुक्तेषु किं स्यात्सुखतरं ततः ॥ १४ ॥

 यदा शिश्य इति । त्वया सहति शेषः । कुथाः- चित्रकम्बलविशेषाः। [५]आस्तरणं-कटादितल्पं मञ्चः ॥ १४ ॥

 पत्रं मूलं फलं यत्त्वमल्पं वा यदि वा बहु ।
 दास्यसे स्वयमाहृत्य तन्मेऽमृतरसोपमम् ॥ १५ ॥
 न मातुर्न पितुस्तत्र मरिष्यामि न वेश्मनः ।
 आर्तवान्युपभुञ्जाना पुष्पाणि च फलानि च ॥ १६ ॥

 न मातुरित्यादौ 'अधीगर्थ...' इति कर्मणि षष्ठी । आर्तवानितत्तदृतौ भवानि ॥ १६ ॥

 न च तत्र गतः किश्चिद्द्रष्टुमर्हसि विप्रियम् ।
 [६] [७]मत्कृते न च ते शोको न भविष्यामि [८]दुर्भरा ॥ १७ ॥


  1. तूलः-पर्यङ्कनिर्माणोपयोगी मृदुतमः कार्पासविशेषः
  2. अजिनं-कन्दल्याद्यजिनं- 'कदली कन्दली च नचमूरुप्रियकावपि । समूरुश्चेति हरिणा अमी अजिनयोनयः 'इत्यभिधानात्-गो.
  3. मपकरिष्यति-ङ.
  4. कुशा-ङ.
  5. आस्तरणानि-कौसुंभोत्तरच्छदाः-गो.
  6. मत्कृते विप्रियं न द्रष्टुमर्हसीति योजना न च ते शोक: मत्कृते । नापि दुर्भरा भविष्यामि ।
  7. त्वत्कृते-ङ.
  8. दुर्मनाः-ङ.