पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३४८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३० सर्गः]
307
एवं सा शोकसन्तप्ता रुरोद जनकात्मजा

 स्वयं तु भार्यां [१] कौमारीं चिरमध्युषितां सतीम् ।
 शैलूष इव मां, राम ! परेभ्यो दातुमिच्छसि ॥ ८ ॥

 पुनर्मर्मवचनान्तरं-स्वयन्त्वित्यादि । कौमारीं-युवतीमिति यावत् । परेभ्यः-अन्येभ्यो दातुमिच्छसि यथा शैलूषः । तस्य हि जायाजीवित्वात्सधर्मोऽस्ति, 'शैलालिनस्तु शैलूषा जायाजीवाः कृशाश्विनः' इति ॥

 [२]यस्य पथ्यंचरामात्थ यस्य चार्थेऽवरुध्यसे ।
 तस्य त्वं भव वश्यश्च[३] विधेयश्च सदाऽनघ ! ॥ ९ ॥

 कुत एवं प्रसङ्ग इत्यत्राह—यस्येत्यादि । पथ्यञ्चरां इष्टानुवर्तिनीं मामात्थ । रात्रिंचर इतिवत्कृत्पूर्वपदमात्रस्य मुं छान्दसः । यस्य चार्थे-यत्प्रयोजननिमित्तमवरुध्यसे-अवरुद्धस्वप्रयोजनो भवसि सत्वमेव तस्य वश्यश्च भव । अत एव विधेयश्च भव । वश्यः-इष्टानुवर्ती । विधेयः-नियोज्यः । नाहं तदिष्टानुवर्तिनी तद्विधेया चेह वसामीत्यर्थः ॥

 स मामनादाय वनं न त्वं प्रस्थातुमर्हसि
 तपो वा यदि वारण्यं वर्गो वा मे सह त्वया ॥ १० ॥
 न च मे भविता तत्र कश्चित्पथि परिश्रमः
 [४]पृष्ठतस्तव गच्छन्त्या विहारशयने[५]ष्विव ॥ ११ ॥

 विहारशयनेष्विव पथि परिश्रमो नेति योजना ॥ ११ ॥


  1. परेभ्यो दातुमिच्छसीत्यस्योपपादकं-कौमारीं, चिरमध्युषितामिति,
  2. यस्य मातृजनस्य पथ्यं-हितं आत्थ यस्य चार्थे मां निवारयसे-तस्य त्वमेव वश्यो भव । यद्वा यस्य-मद्रुपस्य जनस्य पथ्यमात्थ तस्य त्वं वश्यो भव । त्वमेव मद्वचनं शृण्वित्यर्थः यद्वा यस्य भरतस्य पथ्यमात्थ यस्य चार्थे–अभिषेकरूपप्रयोजननिमित्ते अवरुध्यसेनिगृहीतोऽसि तस्य त्वं वश्यो भव-गो.
  3. नियोज्यश्च-ङ.
  4. विहारार्थमृदुशयनस्थिताया इव तव पृष्ठतो गच्छन्त्याः मम परिश्रमो न भवितेत्यर्थः ।
  5. ष्वपि-ङ.