पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३४७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
306
[अयोध्याकाण्डः
सीतावनानुगमनाभ्यनुज्ञा

 अयं लोकः अज्ञानात्-उक्तरीत्या दुर्निरूपत्वत्स्वरूपापरिज्ञानाद्धेतोर्यत् वक्ष्यति-वदति तध्द्यनृतं बत ! किं वदतीत्यतः- तेज इति । रामे परं-सर्वोत्तरं स्वं तेजः परिगृह्य तपति सति दिवाकरे तेजो-नास्तीव-नास्त्येव । दिवाकरतेजः रामतेजस्सदृशं न भवतीति यद्वदति तदनृतमित्यर्थः ॥ ४ ॥

 [१]किं हि कृत्वा विषण्णस्त्वं कुतो वा भयमस्ति ते ।
 यत्परित्यक्तुकामस्त्वं मामनन्यपरायणाम् ॥ ५ ॥

 किं हि कृत्वेति । मनसि किं विचार्येत्यर्थः ॥ ५ ॥

 द्युमत्सेनसुतं [२]वीर ! सत्यवन्तमनुव्रताम् ।
 सावित्रीमिव मां विद्धि त्वमात्मवशवर्तिनीम् ॥ ६ ॥

 द्युमत्सेन इति कश्चित् ; तस्य सुतं सत्यवान्नामकमनुव्रतां सावित्रीं-तस्य पत्नीमिव मां विद्धि । अयमर्थस्सावित्र्युपाख्यानेऽग्रे स्पष्टीभविष्यति ॥ ६ ॥

 न त्वहं [३]मनसाऽप्यन्यं द्रष्टाऽस्मि त्वदृतेऽनघ !
 त्वया, राघव ! गच्छेयं यथाऽन्या कुलपांसिनी ॥ ७ ॥

 न त्वित्यादि ! यथा कुलपांसिनी अन्यं पश्यति एवमहं त्वदृतेऽन्यं न द्रष्टाऽस्मि, लुट् । अतः ते तन्निमित्तमीत्यभावात्त्वया सह गच्छयेम् ॥ ७ ॥


  1. भार्यायाः सहनयनं अकृत्यं किमिति पृच्छति—किमित्यादि
  2. वीरं-ङ.
  3. मनसाऽप्यन्यं न द्रष्टाऽस्मीत्यन्वयः । न स्मरामीति यावत्