पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३४६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३० सर्गः]
305
कुतो वा त्यक्तुकामस्त्वं मस्त्वं मामनन्यxरायणाम्

सान्त्वमानेत्यादि । वनवासानीमित्तार्थमिति । वनवासनिमित्तानुमतिसिद्ध्यर्थमित्यर्थः । [१]अन्यस्तु 'वनवासनिमित्ताय' इति पठति । स पाठो नास्माभिर्दृश्यते ॥ १

 [२]सा [३]तमुत्तमसंविग्ना सीता विपुलवक्षसम् ।
 [४]प्रणयाच्चाभिमानाच्च परिचिक्षेप राघवम् ॥ २ ॥

 उत्तमसंविना-अतिमी तेति यावत् । प्रणयात्-स्नेहात् । अभिमानात्-अत्यन्तमिष्टभर्तृत्वेन रहः सुखदुःखकोपप्रीत्यादिप्रयुक्तवचनाई इत्याभिमानात् । परिचिक्षेप-परिक्षेपवचनं कृतवती ॥ २ ॥

[५]किं त्वाऽमन्यत वैदेहः पिता मे मिथिलाधिपः ।
राम! जामातरं प्राप्य स्त्रियं पुरुषविग्रहम् ॥ ३ ॥

 किन्तदित्यतः–किन्त्वेत्यादि । हे राम! त्वा-त्वां पुरुषविग्रहं-(वेष) विग्रहमात्रेण पुरुष, क्रियायां तु स्त्रियमेव सन्तं जामातरं प्राप्य किममन्यत-तत्त्वं न ज्ञातवानित्यर्थः । यदि जानाति मां तुभ्यं न प्रयच्छेदित्याक्षेपशेषः ॥ ३ ॥

 [६]अनृतं बत! लोकोऽयमज्ञानाद्यद्धि वक्ष्यति ।
 तेजो नास्ति परं रामे तपतीव दिवाकरे ॥ ४ ॥


  1. गोविन्दराजः,
  2. उत्तमं-अत्यन्तं कंपमाना-गो.
  3. मुहूर्त-उ.
  4. प्रणयात्-स्नेहात्, अभिमानात्-मदीयोऽयमित्यभिमानात्, कोपाद्वा, प्रणयकोपादिति संपिण्डितोऽर्थः-गो,
  5. अथवा–'सहधर्मचरी तव' इत्युक्त्वा भवते मां ददत् में पिता, इदानीं मम त्यागे त्वा जामातरं अमन्यत किं-मन्येत किम् ? भवन्तं आत्मनो जामातृत्वेन निर्देशायापि लज्जत में पितेति भावः ।
  6. अयं लोको यत् वक्ष्यति वदति 'रामे परं तेजोऽस्तीति इत्यर्थसिद्धम् तत् अज्ञानात् । अतोऽनृतं बत! तपति दिवाकर इव रामे परं तेजो नास्ति, व्यतिरेकदृष्टान्तः-गो.