पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३४५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
304
अयोध्याकाण्डः
सीतावनानुगमनाभ्यनुज्ञा

 एवं बहुविधं तं सा याचते गमनं प्रति ।
 नानुमेने महाबाहुस्तां नेतुं विजनं वनम् ॥ २२ ॥

 नयनाननुमतौ हेतुः-विजनमिति । श्वश्रूननान्हमुखरक्षकजनरहितमिति यावत् ॥ २२ ॥

 एवमुक्ता तु सा चिन्तां मैथिली समुपागता ।
 स्नापयन्तीव गामुष्णैरश्रुभिर्नयनच्युतैः ॥ २३ ॥

 गां-भुवम् ॥ २३ ॥

 चिन्तयन्तीं तथा तां तु निवर्तयितुमात्मवान् ।
 [१]ताम्रोष्ठीं स तदा सीतां काकुत्स्थो बह्णसान्त्वयत् ॥ २४ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे एकोनत्रिंशस्सर्गः


 वर (२४) मानः सगेः ।। २२-२४ ॥

इति श्रीमद्रामायणामृतकतकटकीयां अयोध्याकाण्डे एकोनत्रिंशस्तर्गः

त्रिंशस्सर्गः

[सीतावनानुगमनाभ्यनुज्ञा]

 सान्त्व्यमाना तु रामेण मैथिली जनकात्मजा ।
 वनवास[२]निमित्तार्थं भर्तारमिदमब्रवीत् ॥ १ ॥

 एवं न्यायतः प्रतिपाद्यमानानुगमनस्याननुमविौर्बल्य मूलेतिमर्मोक्त्या प्रतिबुद्धानुव्रजनदार्ढ्यो भगवाननुव्रजनं अनुमन्यते सीतायाः ।


  1. क्रोधाविष्टां तु वैदेही-ङ.
  2. निमित्ताय-ङ.