पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३४४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२९ सर्गः]
303
त्वया वियुक्ता नेच्छामि जीवितुं क्षणमप्यहम्

 श्रुतिर्हि श्रूयते पुण्या ब्राह्मणानां यशस्विनाम् ॥ १७ ॥
 इह लोके च पितृभिः या स्त्री यस्य, महामते !
 [१] अद्भिर्दत्ता [२] स्वधर्मेण प्रेत्यभावेऽपि तस्य सा ॥ १८ ॥

 कुतः प्रेत्य च सङ्गमसिद्धिरित्यत्राह-श्रुतिरित्यादि । ब्राह्मणानां मुखात् पुण्या खिल[३]किल श्रुतिः यत् उक्तार्थप्रतिपादिका श्रूयते अत इत्यर्थः । का सेत्यतस्तां श्रुतिं पठति इहेत्यादि । पद्यसिद्धये वाल्मीकिना महामत इति पदं प्रयुक्तम् । श्रुतिस्वरूपं तु तदतिरिक्तं यजुर्मन्त्ररूपम्–इह लोके च पितृभिर्यास्त्री यस्याद्भिर्दत्ता स्वधर्मेण प्रेत्यभावेऽपि तस्य सेति ॥ १८ ॥

 एवमस्मात्स्वकां नारीं सुवृत्तां हि पतिव्रताम् ।
 नाभिरोचयसे नेतुं त्वं मां केनेह हेतुना ॥ १९ ॥

 एवमिति। श्रुतिस्मृतिन्यायतो नित्यसम्बन्धे सिद्धे सतीत्यर्थः । इह-इदानीमिति यावत् ॥ १९ ॥

 भक्तां पतिव्रतां दीनां मां समां सुखदुःखयोः ।
 नेतुमर्हसि, काकुत्स्थ ! समानसुखदुःखिनीम् ॥ २० ॥

 सुखदुःखयोरिति । तत्साधनानुष्ठानयोरित्यर्थः । अत एव समानसुखदुःखिनीम् ॥ २० ॥

 यदि मां दुःखितामेवं वनं नेतुं न चेच्छसि ।
 विषमग्निं जलं वाऽहमास्थास्ये मृत्युकारणात् ॥ २१ ॥


  1. अद्भिस्सहेत्यर्थः
  2. स्वधर्मेण-पतिव्रताधर्मेण विद्यमाना सा प्रेत्यभावेऽपि तस्य पत्नी भवत्येव-ती.
  3. श्रुतिः-क.