पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३४३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
302
[अयोध्याकाण्डः
सीतादृढाध्यवसायः

 न केवलं ब्राह्मणमुखीद्वनवासश्रवणं, अपि तु तापसीमुखादपीत्याह-कन्ययेत्यादि । गेह इति । स्थितवत्येति शेषः । भिक्षिणी- ब्रीह्यादित्वादिनिः, तापसीति यावत् ॥ १३ ॥

 प्रसादितश्च वै पूर्वं त्वं वै बहु[१]विधं, प्रभो !
 गमनं वनवासस्य काङ्क्षितं हि सह त्वया ॥ १४ ॥

 वनवासस्य गमनं प्रति प्रसादित इति योजना ॥ १४ ॥

  [२]कृतक्षणाऽहं, भद्रं ते, गमनं प्रति, राघव !
 वनवासस्य शूरस्य चर्या हि मम रोचते ॥ १५ ॥

 कृतक्षणा-कृतानुमतिका । वने वासो यस्य स तथा । चर्याशुश्रूषा ॥ १५ ॥

 शुद्धात्मन् ! [३]प्रेमभावाद्धि भविष्यामि विकल्मषा ।
 भर्तारमनुगच्छन्ती भर्ता हि [४]मम दैवतम् ॥ १६ ॥

 [५]प्रेत्यभावेऽपि [६]कल्याणसङ्गमो मे सह त्वया ।  अनुगच्छन्ती विकल्मषा भविष्यामीति योजना । प्रेत्यभावेमृत्वा शरीरान्तरपरिग्रहेऽपि हि यस्मात् त्वया कल्याणसङ्गमः-दिव्यसुखहेतुस्सङ्गमस्सिद्धः-अत इह नित्यसङ्गमः कैमुतिकसिद्ध इत्यर्थः ॥


  1. तिथं-ङ. च.
  2. क्रतः क्षणः-उत्सवः उत्साहः यया सा । कृतोत्साहेत्यर्थः । अहं गमनं प्रति कृतोत्साहा । हे राम! ते भद्रं भवतु इत्यन्वयः ।
  3. प्रेष्य-ङ.
  4. पर-ङ. च.
  5. एतदनन्तरं-'पिता रक्षति कौमारे भर्ता रक्षति यौवने । पुत्रो रक्षन्ति वार्ध्यक्ये न स्त्री स्वातन्त्र्यमर्हति ॥ इत्यधिकम्-ङ.
  6. कल्याणः संगमः-ङ. च,