पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३४२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२९ सर्गः]
301
त्वया युक्ता न लक्ष्येऽहं दुःखानि विविधान्यपि

 [१]आदेशो वनवासस्य प्राप्तव्यस्स मया किल ।
 सा त्वया सह [२]तत्राहं यास्यामि, प्रिय ! नान्यथा ॥ १० ॥

 सः वनवासस्यादेशः ब्राह्मणोक्तः मया प्राप्तव्यः किल । ललाटलिपेरशक्यपरिमार्जनत्वादित्याशयः । सा-तथाऽऽदेशवत्यहं । तत्र-तस्मादेव हेतोस्त्वया सह यास्यामि । नान्यथा ॥ १० ॥

 कृतादेशा भविष्यामि गमिष्यामि सह त्वया ।
 कालश्चायं समुत्पन्नः सत्यवाग्भवतु [३]द्विजः ॥ ११ ॥

 एवं सति कृतादेशा-कृतब्राह्मणनियोगा भविष्यामि । अतस्त्वया सह गमिष्यामि । समुत्पन्न इति । वनवासस्येति शेषः ॥ ११ ॥

 वनवासे हि जानामि दुःखानि बहुधा किल ।
 प्राप्यन्ते नियतं, वीर ! पुरुषैरकृतात्मभिः ॥ १२ ॥

 वनवासे हि बहुधा दुःखानि किल सन्तीति जानाम्येव । अथापि तद्दुःखमकृतात्मभिः-अजितेन्द्रियैर्विषयलोलुपैरेव प्राप्यते । न त्वादृङ्मादृग्जनेनेत्यर्थः ॥ १२ ॥

 कन्यया च पितुर्गेहे वनवासः श्रुतो मया ।
 [४]भिक्षिण्या[५]स्साधुवृत्ताया मम मातु[६]रिहाग्रतः ॥ १३ ॥


  1. आदेशः–देवादेशः विध्वपरपर्यायः ब्राह्मणमुखाच्छ्रतः
  2. भर्त्राहं-ङ.
  3. एकवचनेन तेषामेकमस्यं सूच्यते
  4. ननु लक्षणज्ञानां भ्रमो भवेत्, तत्राह-भिक्षिण्याः-तापस्याः । सपो-युक्तत्वेन तस्याः भ्रमो न संभवतीति भावः-ति. साधुवृत्तायां भिक्षिण्या इति पश्चमी ।
  5. श्शमवृत्ताया-ङ. च.
  6. अत्र 'इइ' इति पदमुत्तरश्लोकान्वयि-ति. इह मातुः एतज्जन्मनि जनन्या इत्यर्थः-सत्य. अथवा पितृगृहे लक्षणिभ्यः श्रुतम् । इह-पतिगृहे मातुः-कदाचिदागताया मातुः, अथवा कोसस्यैव माता, तस्या अग्रतः भिक्षिण्या श्रुतमित्यर्थः ॥