पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३४१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
300
[अयोध्याकाण्डः
सीतादृढाध्यवसायः

 न च मां त्वत्समीपस्थामपि [१] शक्नोति, राघव !
 सुराणामीश्वर[२]श्शक्रः प्रधर्षयितुमोजसा ॥ ६ ॥
 पतिहीना तु या नारी सा न शक्ष्यति जीवितुम् ।
 काममेवंविधं, राम ! त्वया मम [३] [४]विदर्शितम् ॥ ७ ॥

 पतिहीनेति । प्रचलभर्तृहीनेति यावत् । न शक्ष्यतीति । उक्तरूपवन इति शेषः । कामं विदर्शितं भवता । अथापि त्वद्धर्तृकाया न भीतिलेश इति शेषः ॥ ७ ॥

 अथवाऽपि, महाप्राज्ञ ! ब्राह्मणानां [५]मुखाच्छ्रुतम् ।
 पुरा पितृगृहे, [६]सत्यं वस्तव्यं किल [७]मे वने ॥ ८ ॥

 अथवा किमनेन सुखदुःखविचारेण । मम तु वनवासप्राप्तिर्ब्रह्मलिखितेत्याह–अथवेत्यादि । पुरा पितृगृहे निवसन्त्या मया ब्राह्मणानां मुखात् 'त्वया किल वने वस्तव्यम्' इति श्रुतम् ॥ ८ ॥

 [८]लक्षणिभ्यो द्विजातिभ्यः श्रुत्वाऽहं वचनं पुरा ।
 वनवासकृतोत्साहा नित्यमेव, महाचल ! ॥ ९ ॥

 कथमेवं निश्चयसंभव इत्यत्राह-लक्षणिभ्य इति । लक्षणज्ञानमस्त्येषामिति इनिः, सामुद्रिकलक्षणविद्भ्य इत्यर्थः ॥ ९ ॥


  1. शक्रोऽपि-ङ.
  2. श्शक्तः-ङ.
  3. दशमसर्गारम्भश्लोके-विदर्शिता-विपरीतं बोधितेति व्याख्यातत्वादत्रापि विदर्शितं-विपरीतमुपदिष्टमित्यर्थः स्वरसः। पतिहीनाया जीवनमेव यदाऽसंभवि, तदा तस्यै अन्यानुवर्तनोपदेशोऽत्यन्तं विपरीत एवेत्याशयः ।
  4. निदर्शितम्-ङ.
  5. मया श्रुतम्-ङ.
  6. नित्यं-ङ.
  7. मे मय-गो.
  8. लाक्षणिभ्यः-ङ.