पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३४०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२९ सर्गः]
299
पुनरश्रुमुखी सीता रामं वचनमब्रवीत्

एकोनत्रिंशस्सर्गः

[सीतादृढाध्यवसाय]

 एतत्तु वचनं श्रुत्वा सीता रामस्य दुःखिता।
 प्रसक्ताश्रुमुखी [१]मन्दमिदं वचनमब्रवीत् ॥ १ ॥

 इदमब्रवीदित्युक्तम् । तदेव प्रदर्श्यते–एतत्त्वित्यादि ॥ १ ॥

 ये त्वया कीर्तिता दोषा वने वस्तव्यतां प्रति ।
 गुणा इत्येव [२]विद्धि तव स्नेह[३]पुरस्कृता ॥ २ ॥

 तव स्नेहपुरस्कृता-पुरस्कृतत्वादेव-त्वदनुगृहीतत्वादेव हेतोः गुणा इत्येव विद्धीति ॥ २ ॥

 मृगास्सिंहा गजाश्चैव शार्दूलाश्शरमास्तथा ।
 पक्षिणः सृमराश्चैव ये चान्ये वनचारिणः ॥ ३ ॥
 अदृष्टपूर्वरूपत्वात् सर्वे ते [४]तव, राघव !
 रूपं दृष्ट्वाऽपसर्पेयुः [५]भये सर्वे हि बिभ्यति ॥ ४ ॥

 एतदेव प्रदर्शयति–मृगा इत्यादि । सृमरः-गवयः- सृमरैः अदृष्टपूर्वं तावकं रूपं येषां ते तथा तेषां भावस्तत्त्वं, तस्मादित्यर्थः । भये-भयहेतौ सति ॥ ४ ॥

 त्वया च सह गन्तव्यं मया [६]गुरुजनाज्ञया ।
 त्वद्वियोगेन मे, राम ! त्यक्तव्यमिह जीवितम् ॥ ५ ॥

 त्वद्वियोगेन हेतुना ॥ ५ ॥


  1. मन्दमिति । 'प्रणयादेव संक्रुद्धा भर्तारमिदमब्रवीत्' (२७-१) इतिवन्न सोद्वेगमब्रवीत्। रामप्रतिषेधजभयादिति भावः ।
  2. तान् मन्ये-ङ.
  3. पुरस्कृतान्-ङ.
  4. ते सर्वे तव, रूपं' इत्यन्वयः ।
  5. तव-ङ.
  6. 'इयं सीता मम सुता....छायेवानुगता सदा (वा. ७३-२६) इत्युतत्वादितिभावः ।